________________
श्रीमलय
एव च तस्मै न किञ्चिदपि ददाति, नापि वचसाऽपि संस्पृशति, मा शेषैरेष परासुर्विधीयेतेति बुद्ध्या, स च किञ्चि- औत्पत्तिकी गिरीया
दप्यलभमानो मन्युभरवशात् प्रस्थितो देशान्तरं जगाम, क्रमेण बेन्नात नगरं, तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणौ बुद्धिजन्दीवृत्तिः समुपविष्टः, तेन च श्रेष्ठिना तस्यामेव रात्री स्पने रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत् , तस्य च श्रेणिकपु
दृष्टान्ताः ॥१५०॥ डण्यप्रभावतस्तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रयेण महान् लाभः समुदपादि, म्लेच्छहस्ताचानाणि म
हारत्नानि खल्पमूल्येन समपद्यन्त, ततः सोऽचिन्तयत्-अस्य महात्मनो मम समीपमुपविष्टस्य पुण्यप्रभाव एष यत् मया महती विभूतिरेतावती समासादिता, आकृति च तस्यातीव सुमनोहरामवलोक्य खचेतसि कल्पयामास-स एप रत्नाकरो यो मया रात्रौ खप्ने दृष्टः, ततस्तेन कृतकराजलीसम्पुटेन विनयपुरस्सरमाभापितः श्रेणिकः-कस्य यूयं प्रांघूर्णकाः ?, श्रेणिक उवाच-भवतामिति, ततः स एवंभूतवचनश्रवणतो धाराहतकदम्बपुष्पमिव पुलकितसमस्ततनुयष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं भोजनादिकं च सकलमप्यात्मनोऽधिकतरं सम्पादयामास, पुण्यप्रभाव च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धिसम्भवेनासाधारणमभिसमीक्षमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितरं न-10 न्दानामानं (मी) दत्तवान्, श्रेणिकोऽपि तया सह पुरन्दर इव पौलोम्या मन्मथमनोरथानापूरयन् पञ्चविधभोगलालसो
॥१५॥ बभूव, कतिपयवासरातिक्रमे च नन्दाया गर्भाधानं बभूव, इतश्च प्रसेनजित् वान्तसमयं विभाव्य श्रेणिकस्य परम्परया वार्तामधिगम्य तदाकारणाय सत्वरमुष्ट्रवाहनान् पुरुषान् प्रेषयामास, ते च समागत्य श्रेणिकं विज्ञप्तव
Jain Education International
For Personal & Private Use Only
ainelibrary.org