SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्ति ॥१४९॥ RECORRECENESS संस्पर्शतो जातकामोद्रेका तमपि भोगायाशंसितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः सम्भवन्ति तन्न औत्पत्तिकी जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिवि बुद्धिस्मितचेताः खावासप्रासादमगमत् , रोहकं च सर्वेषां मत्रिणां मूर्द्धाभिषिक्तं मत्रिणमकापीत् १॥ तदेवं 'भरहसिलेति' दृष्टान्ताः व्याख्यातं । सम्प्रति पणियंति व्याख्यायते-द्वौ पुरुषो-एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामेयकः खग्रामाच्चिभटिका आनयन् प्रतोलीद्वारे वर्त्तते, तं प्रति नागरिकः प्राह-योताः सर्वा अपि तव चिर्भटिका भक्षयामि ततः किं मे प्रयच्छसीति?, ग्रामेयकः प्राह-योऽनेन प्रतोलीद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यामपि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेण ताः सर्वा अपि चिटिका मनाक् २ भक्षयित्वा मुक्ताः, उक्तं च ग्रामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाश्चिटिकाः, ततः प्रयच्छ मे यथाप्रतिज्ञातं मोदकमिति, ग्रामेयक आह-न मे चिटिका भक्षिताः, ततः कथं ते प्रयच्छामि मोदकमिति १. नागरिकः प्राह-भक्षिता मया सर्वा अपि तव चिटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययमुत्पादयामि ते, तेनोक्तम्-उत्पादय प्रत्ययं, ततो द्वाभ्यामपि वि-IX पणिवीथ्यां विस्तारिता विक्रयाय चिर्भटिकाः, समागतो लोकः क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति-ननु | ॥१४ भक्षितास्त्वदीयाः सर्वा अपि चिटिकास्तकथं वयं गृहीमः, एवं च लोकेनोक्ते साक्षिणां ग्रामेयकस्य दपादि, क्षुभितो ग्रामेयकः-हा कथं नु नाम मया तावत्प्रमाणो मोदको दातव्यः?, ततः स भयेन कम्पमानो विन www.jainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy