SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१२५॥ तत उत्सर्पिण्यां दुष्षमा सिद्धा विशेषाधिकाः, ततोऽवसर्पिण्यां दुष्पमासिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि द्वयोरपि दुष्पमसुषमासिद्धाः सङ्ख्येयगुणाः, ततोऽवसर्पिण्यां सर्वसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽप्युत्सर्पिणी सर्वसिद्धा विशेषाधिकाः, गतं कालद्वारं सम्प्रति गतिद्वारं तत्र मानुषीभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानुषेभ्योऽनअन्तरागताः सिद्धाः सवेयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिस्त्रीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः; तेभ्योऽपि | देवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च - "मणुई मणुया नारय तिरिक्खिणी तह तिरिक्ख देवीओ । देवा य जहाकमसो संखेज्जगुणा मुणेयच्वा ॥ १२॥” तथा एकेन्द्रियेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पञ्चेन्द्रियेभ्यो नन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तथा वनस्पतिकायेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, ततोऽप्यपूकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि सकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च“एगिदिएहिं थोवा सिद्धा पञ्चदिएहिं संखगुणा । तरुपुढविआउत सकाइएहिं संखागुणा कमसो ॥ १ ॥” तथा १ मनुष्यो मनुजा नारकाः तिरश्यस्तथा तिर्यञ्चो देव्यः । देवाश्च यथाक्रमं संख्येयगुणा ज्ञातव्याः ॥ १ ॥ २ एकेन्द्रियेभ्यः स्तोकाः सिद्धाः पञ्चेन्द्रियेभ्यः संख्यगुणाः । तरुपृथ्व्यपुत्रसकायिकेभ्यः संख्यगुणाः क्रमात् ॥ २ ॥ Jain Education International For Personal & Private Use Only परम्पर सिद्धकेवलं १५ २० २२ ।। १२५ ।। www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy