________________
सामान्यं, विपर्ययात्, न च तदर्थक्रियासमर्थ वस्तु शाब्दे ज्ञाने प्रतिभासते, तस्मादवस्तुविषया एते शब्दाः, तथा । चात्र प्रमाणं-योऽर्थः शाब्दे ज्ञाने येन शब्देन सह संस्पृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्द-18 स्याश्वः, नावभासते चेन्द्रियगम्योऽर्थः शाब्दे ज्ञाने शब्देन संस्पृष्ट इति, यो हि यस्य शब्दस्यार्थः स तेन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिवन्धनत्वाद् वाच्यत्वस्खेति, तदेतदस-12 मीचीनम्, इन्द्रियगम्यार्थस्य शाब्दे ज्ञाने शब्देन सहानवमासासिद्धेः, तथाहि-कृष्णं महान्तमखण्डं मसृणमपूर्वमप-2 वरकात् घटमानयेत्युक्तः कश्चित् तज्ज्ञानावरणक्षयोपशमयुक्तः तमर्थ तथैव प्रत्यक्षमिव शाब्दे ज्ञाने प्रतिपद्यते, तद-15 न्यघटमध्ये तदानयनाय तं प्रति भेदेन प्रवर्तनात् , तथैव च तत्प्राप्तेः, अथ तत्राप्यस्फुटरूप एव वस्तुनः प्रतिभासोनुभूयते, स्फुटाभं च प्रत्यक्षं, तत्कथं प्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः ?, नैष दोषः, स्फुटास्फुटरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात्, तथाहि-एकस्मिन्नेव नीलवस्तुनि दूरासन्नवर्तिप्रतिपत्तृज्ञाने स्फुटास्फुटप्रतिभासे उपलभ्येते, न च तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात्, तथेहाप्येकस्मिन्नपि वस्तुनीन्द्रियजशा-| ब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतो, न च तद्गोचरवस्तुभेदः, अथ वस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुविधानात्, यस्य हि ज्ञानस्य प्रतिभासो यस्य भावाभावावनुविधत्ते तत्तस्य परिच्छेदकं, न च शाब्दज्ञानप्रतिभासो वस्तुनो भावाभावावनु
dal Educal Derational
For Personal & Private Use Only
V
ww.jalnelibrary.org