________________
वगन्तव्या - " सइ अणंते सिद्धे सङ्घपएसेहिँ नियमसो सिद्धो । ते उ असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥ १ ॥" गतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषा - सर्वेष्वपि द्वारेषु यत्र २ स्थानेऽष्टशतमेकसमयेन सिध्यदुक्तं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः, यत्र २ पुनर्वैिशतिर्देश वा तत्र २ चत्वारः समयाः, शेषेषु स्थानेषु द्वौ समयौ, उक्तं च - " जेहिं अट्ठसय सिज्झइ अट्ठ उ समया निरंतरं कालो । वीसदसएसु चउरो सेसा सिज्यंति दो समए ॥ १ ॥ सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे - जम्बूद्वीपे धातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेषूत्कर्षतोऽष्टौ समयान् यावन्निरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान्, नन्दनवने पण्डकवने लवणसमुद्रे च द्वौ द्वौ समयौ, कालद्वारे - उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरचतुरः समयान्, गतिद्वारे - देवगतेरागता उत्कर्षतोऽष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे - पश्चात्कृतपुरुषवेदा अष्टौ समयानू, पश्चात्कृतस्त्रीवेदनपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान्, पुरुषवेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चाष्टसु भङ्गेषु चतुरश्चतुरः समयानिति, तीर्थद्वारे - तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽथै
१ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैर्नियमात् सिद्धः । ते त्वसंख्यातगुणा देशप्रदेशैर्थे स्पृष्टाः ॥ १ ॥ २ यत्राष्टशतं सिध्यति अष्टैव समया निरन्तरं कालः । विंशती दशसु च चत्वारः शेषाः सिध्यन्ति द्वौ समयौ ॥ १ ॥
International
For Personal & Private Use Only
अनन्तरसिद्ध केवलज्ञानम्
१०
११
www.jainelibrary.org