SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ जले चउकं दुवे समुमि । अट्ठसयं तिरियलोए बीसपुहुत्तं अहोलोए ॥ १ ॥” तथा नन्दनवने चत्वारः, 'नंदेणे चत्तारी'ति वचनात्, एकतमस्मिंस्तु विजये विंशतिः, उक्तं च सिद्धप्राभृतटीकायां - "वीसां एगयरे विजये" तथा सर्वास्वप्यकर्मभूमिषु प्रत्येकं संहरणतो दश २, पण्डकवने द्वौ, पञ्चदशस्खपि कर्मभूमिषु प्रत्येकमष्टशतं, उक्तं च"संकौमणाएँ दसगं दो चेव हवंति पंडगवणंमि । समएण य असयं पण्णरससु कम्मभूमीसु ॥ १ ॥ " कालद्वारे उत्सपिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतं, अवसर्पिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवसर्पिण्यां च संहरणतो दश २, तथा चोक्तं सिद्धप्राभृतटीकायां – “ सेसेसुं अरएस दस सिज्यंति, दोसुवि उस्सप्पिणीओसप्पिणीसु संहरणतो ।” सिद्धप्राभृतसूत्रे ऽप्युक्तम् - "उस्सप्पिणीओसप्पिणीतइयचउत्थयसमासु अट्ठसयं । पंचमियाए वीसं दसगं दसगं च सेसेसु ॥ १ ॥” गतिद्वारे - देवगतेरागतानामष्टशतं, शेषगतिभ्य आगताः प्रत्येकं दश २, उक्तं च सिद्धप्राभृते- 'सेसाण गईण दसदसगं' भगवांस्त्वार्यश्यामः पुनरेवमाह — नरकगतेरागता दश, तत्रापि | विशेषचिन्तायां रत्नप्रभापृथिव्याः शर्कराप्रभाया वालुकाप्रभायाश्च पृथिव्या आगताः प्रत्येकं दश २, पङ्कप्रभायाः पृथिव्या आगताश्चत्वारः, तथा तिर्यग्गतेरागताः सामान्यतो दश, विशेषचिन्तायां पुनः पृथिवीकायेभ्योऽपकाये - १ नन्दने चत्वारः । २ विंशतिरेकतरस्मिन् विजये । ३ संक्रमणया दश द्वावेव भवतः पण्डकवने । समयेन चाष्टशतं पञ्चदशसु कर्मभूमिषु ॥ १ ॥ ४ शेषेष्वरकेषु दश सिध्यन्ति, द्वयोरपि उत्सर्पिण्यवसर्पिण्योः संहरणतः । ५ उत्सर्पिण्यवसर्पिण्योः तृतीयचतुर्थसमयोरष्टशतम् । पञ्चम्यां विंशतिर्देशकं दशकं च शेषेषु ॥ १ ॥ ६ शेषाभ्यो गतिभ्यो दशकं दशकं । Jain Education International For Personal & Private Use Only अनन्तर सिद्धकेवलज्ञानम् १० www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy