________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ १११ ॥
Jain Education I
तात्स्थ्यात्तद्व्यपदेश इति तावत्क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः । यावदुक्तखरूपमनः पर्यायज्ञानप्रतिपादिका गाथा, तस्या व्याख्या - मनः पर्यायज्ञानं प्रागनिरूपित शब्दार्थ, पुनः शब्दो विशेषणार्थः, स च रूपिविषयत्वक्षायोपशमिकत्वप्रत्यक्षत्वादिसाम्येऽप्यवधिज्ञानादिदं मनः पर्यायज्ञानं खाम्यादिभेदाद्भिन्नमिति विशेषयति, तथाहिअवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति द्रव्यतोऽशेषरूपिद्रव्यविषयं क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं च कालतोऽतीतानागतासङ्ख्येयोत्सर्पिणीविषयं भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसङ्ख्येयपर्यायविषयं, मनः पर्यायज्ञानं पुनः संयतस्याप्रमत्तस्यामर्षोपध्याद्यन्यतमद्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्यक्षेत्रगोचरं कालतोऽतीतानागतपल्योपमासङ्ख्येयभागविषयं भावतो मनोद्रव्यगतानन्तपर्यायालम्बनं ततोऽवधिज्ञानाद्भिन्नं, एतदेव लेशतः सूत्रकृदाह - 'जनमनः परिचिन्तितार्थप्रकटनं' जायन्ते इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनः परिचिन्तितार्थः तं प्रकटयति- प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं न तद्बहिर्व्यवस्थितप्राणिद्रव्यमनोविषयमित्यर्थः, तथा गुणाः - क्षान्त्यादयस्ते प्रत्ययः कारणं यस्य तद्गुणप्रत्ययं चारित्रवतोऽप्रमत्तसंयतस्य, 'सेत्तं मणपज्जवनाणं' तदेतत् मनःपर्यायज्ञानं ॥
से किं तं केवलनाणं ?, केवलनाणं दुविहं पन्नत्तं, तंजहा भवत्थकेवलनाणं च सिद्ध केवलनाणं 'च। से किं तं भवत्थकेवलनाणं ?, भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा - सजोगिभवत्थके
For Personal & Private Use Only
सयोग्ययोगि
केवलम्
सू. १९
२०
॥ १११ ॥
२५
ainelibrary.org