________________
मनाप
योयम्
शानित्यर्थः. स च प्रतिभासो भ्रान्तोऽपि सम्भवति यथा द्विचन्द्रप्रतिभासः ततो भ्रान्तताशङ्काव्युदासाय विशेषणान्तरमाह-वितिमिरतरकान्-विगतं तिमिरं-तिमिरसम्पाद्यो भ्रमो येषु ते वितिमिराः ततो 'द्वयोः प्रकृष्टे || तरविति'तरप्प्रत्ययः ततः प्राकृतलक्षणात् खार्थे कः प्रत्ययः, एवं पूर्वेष्वपि पदेषु यथायोगं व्युत्पत्तिद्रष्टव्या, वितिमिरतर-18 कान्-सर्वथा भ्रमरहितान् , अथवा अभ्यधिकतरकान् विपुलतरकानिति द्वावपि शब्दावेकाओं, विशुद्धतरकान् विति-18 मिरतरकानेतावपि एकार्थों, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्यापि प्रसिद्धो भवति तेषामनुग्रहार्थ| मेकार्थिकपदोपन्यासः । तथा क्षेत्रतो णमिति वाक्यालङ्कारे ऋजुमतिरधो यावदस्या रत्नप्रभायाः पृथिव्या उपरितनाधस्तनान् क्षुल्लकप्रतरान् । अथ किमिदं क्षुल्लकातर इति ?, उच्यते, इह लोकाकाशप्रदेशा उपरितनाधस्तनदेशरहिततया विवक्षिता मण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यन्ते, तत्र तिर्यग्लोकस्योर्ध्वाधोऽपेक्षयाऽष्टादशयोजनशत-12 प्रमाणस्य मध्यभागे द्वौ लघुक्षुल्लकप्रतरौ, तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्येऽष्टप्रादे-15 शिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एप एव रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यग्लोकमध्यं, तौ च द्वौ सर्वलघू प्रतरावङ्गुलासङ्ख्येयभागवाहल्यावलोकसंवर्त्तितौ रजप्रमाणौ, तत एतयोरुपर्यन्येऽन्ये प्रतरास्तिर्यगङ्गलासङ्ख्येयभागवृद्ध्या वर्द्धमानास्तावदृष्टव्या यावदूर्ध्वलोकमध्यं, तत्र पञ्चरज्जुप्रमाणः प्रतरः, तत उपर्यन्येऽन्ये प्रतरास्तिर्यगङ्गुलासङ्ख्येयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते
dain Educa
t ional
For Personal & Private Use Only
|RLww.jainelibrary.org