SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ योयम् BECAUSAISOPISTOSS हूँच व्युत्पत्तौ खतत्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवश्यते तदैवं व्युत्पतिः-ऋज्वी सामान्यग्राहिणी म-! मनापतिरस्य स ऋजुमतिः, तथा विपुला-विशेषग्राहिणी मतिरस्य स विपुलमतिः। तत् मनःपर्यायज्ञानं द्विविधमपि समासतः' संक्षेपेण चतुर्विधं प्रज्ञतं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो णमिति वाक्या-3 स. १८ लङ्कारे ऋजुमतिरनन्तान् अनन्तप्रदेशिकान्-अनन्तपरमाण्वात्मकान् स्कन्धान्-विशिष्टैकपरिणामपरिणतान् अर्द्ध तृतीयद्वीपसमुद्रान्तर्वर्तिपर्याप्तसंज्ञिपञ्चेन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः जानाति-सापक्षात्कारेणावगच्छति 'पासईत्ति, इह मनस्त्वपरिणतः स्कन्धेरालोचितं बाह्यमर्थ घटादिलक्षणं साक्षादध्य-| क्षतो मनःपर्यायज्ञानी न जानाति, किन्तु मनोद्रव्यांणामेव तथारूपपरिणामान्यथानुपपत्तितोऽनुमानतः, आह8 दूच भाष्यकृत्-"जाणइ वझेऽणुमाणेणं" इत्थं चैतदङ्गीकर्त्तव्यम् , यतो मूर्त्तद्रव्यालम्बनमेवेदं मनःपर्याय ज्ञानमिष्यते, मन्तारस्त्वमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते नान्यथेति | प्रतिपत्तव्यम् , ततस्तमधिकृत्य पश्यतीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात् , आह च चूर्णिणकृत्"मुणियत्थं पुण पञ्चक्खओ न पेक्खइ, जेण मणोदवालंबणं मुत्तममुत्तं वा, सो य छउमत्थो तं अणुमाणओ पेक्खइ, अतो पासणिया भणिया" इति । अथवा सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तव्याद्यपेक्ष्य वैचित्र्यसम्भवा A १ जानाति बाह्यान् अनुमानेन.२ चिन्तितार्थ पुनः प्रत्यक्षतो न प्रेक्षते, येन मनोद्रव्यालम्बनं मूर्तममूर्त वा, स च छद्मस्थस्तत् अनुमानतः प्रेक्षते, अतः पश्यत्ता भणिता। dain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy