________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥१०७॥
माणुसोत्तरनगं स णंदिस्सरं तु बिइएणं । एइ तओ तइएणं कयचेइयवंदणो इहयं ॥ ४ ॥ पढमेण नंदणवणे बिहउप्पारण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ५ ॥” तथा सर्व - विण्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति ?-यस्य मूत्रं विट् श्लेष्मा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आद्यशब्दादामर्षौषध्यादिलब्धिपरिग्रहः, तथा आमषौषध्यादीनामन्यतमामृद्धिमवध्यृद्धिं वा प्राप्तस्य मनःपर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्यृद्धिप्राप्तस्यैवेति नियममाचक्षते, तदयुक्तं, सिद्धप्राभृतादाववधिमन्तरेणापि मनः पर्यायज्ञानस्यानेकशोऽभिधानात् । अत्राह - मनुष्याणामुत्पद्यते इत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कथमुच्यते ' नो अमणुस्साणं उप्पज्जइ' इत्यादि, निरर्थकत्वाद् ?, उच्यते, इह त्रिधा विनेयाः, तद्यथा - उद्घटितज्ञा मध्यमबुद्धयः प्रपञ्चितज्ञाश्च तत्र ये उद्घटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपञ्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषेध - स्याभिधानं महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते, ततो न कश्चिदोषः ।
तं च दुविहं उप्पज्जइ, तंजहा - उज्जुमई य विउलमई य, तं समासओ चउव्विहं पन्नत्तं तंजहा - दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं उज्जुमई णं अणते अनंतपएसिए खं जाणइ पास ते चैव विउलमई अन्भहियतराए विउलतराए विसुद्धतराए वितिमि -
Jain Education International
For Personal & Private Use Only
जंघा विद्याचारणाः
॥१०७॥
२६
www.jainelibrary.org