SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अन्तरमाणपद्मवरवेदिकावनखण्डसमवगूढाः समदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः। एवमेते हिमवति पर्वतेका द्वीपास 18|चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्यया अष्टाविंशतिसङ्ख्या द्वीपाः । एवं हिमवत्तुल्यवर्णप्रमाणे पद्महदप्रमाणाया-13 समविष्कम्भावगाहपुण्डरीकहूदोपशोभिते शिखरिण्यपि पर्वते लवणार्णवजलसंस्पर्शादारभ्य चतसृषु विदिक्षु व्यवस्थिताः एकोरुकादिनामानोऽक्षणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः। ततः सर्वसङ्ख्यया षट्पञ्चाशदन्तरद्वीपाः। एतेषु च वर्तमाना मनुष्या अपि एवंनामानो भवन्ति, भवति च निवासयोगतः तथाव्यपदेशो यथा पञ्चालजनपदनिवासिनः पुरुषाः पञ्चाला इति,तेऽपि चान्तरद्वीपवासिनो मनुष्या वर्षभनाराचसंहननिनः समचतुरस्रसं-18 स्थानसंस्थिताः समग्रशुभलक्षणतिलकमषपरिकलिता देवलोकानुकारिरूपलावण्यालङ्कारशोभितविग्रहा अष्टधनुःशतप्रमाणशरीरोच्छायाः, स्त्रीणां त्विदमेव किञ्चिन्न्यूनं द्रष्टव्यं, तथा पल्योपमासङ्ख्येयभागप्रमाणायुषः स्त्रीपुरुषयुगलव्यव-12 स्थिताः दशविधकल्पपादपसम्पाद्योपभोगसम्पदः प्रकृत्यैव शुभचेतसो विनीताः प्रतनुक्रोधमानमायालोभाः सन्तो-18 है पिणो निरौत्सुक्याः कामचारिणोऽनुलोमवायुवेगाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिके ममत्वकारिणि, ममत्वाभिनिवेशरहिताः सर्वथापगतवैरानुबन्धाः परस्परप्रेष्यादिभावविनिर्मुक्ता अत एवाहमिन्द्रा हस्त्यश्वकरभगोम-| हिष्यादीनां सद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारचारिणो रोगवेदनादिविकला वर्तन्ते, चतुर्थाहारमेते गृह्णन्ति चतुःषष्टिश्च पृष्टकरण्डकास्तेषां, षण्मासावशेषायुषश्चामी स्त्रीपुरुषयुगलं प्रसुवते एकोनाशीतिदिनानि च तत् - For Personal & Private Use Only Jain Education International 'www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy