SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवेसु ग-1 मनःपर्यवभवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुक्केसु वा सोणिएसु ज्ञान वा सोकपोग्गलपरिसाडेसु वा विगयकलेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा सबेसु चेव 81 असुइठाणेसु एत्थ णं समुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असण्णी मिच्छादिट्ठी अण्णाणी सचाहिं पजत्तीहिं अपजत्तगा अंतमुहुत्ताउया चेव कालं करेंति" इति । तथा गर्ने व्युत्क्रान्तिः-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा गर्भाद् व्युत्क्रान्तिः-व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः, भगवानाह-नो सम्मूछिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , किन्तु गर्भव्युत्क्रान्तिकमनुष्याणां, एवं सर्वेषामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः, नवरं कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयो-भरतपञ्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणाः पञ्चदश तासु जाताः कर्मभूमिजाः, कृष्यादिकमरहिताः कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपञ्चकहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुप १ योजनशतसहस्रेषु अर्धतृतीयेषु द्वीपसमुद्रेषु पञ्चदशसु कर्मभूमिषु त्रिंशत्यकर्मभूमिषु षट्पञ्चाशत्यन्तीपेषु गर्भव्युत्क्रान्तिकमनुष्याणामेवोच्चारेषु वा प्रश्रवणेषु वा श्लेष्मसु वा सिवाणेषु वा बान्तेषु वा पित्तेषु वा शुक्रेषु वा शोणितेषु वा शुक्रपुद्गलपरिशाटेषु वा विगतकलेवरषु स्त्रीपुरुषसंयोगेषु वा प्रामनिर्धमनेषु वा नगरनिधमनेषु वा सर्वेष्वेवाशुचिस्थानेषु अत्र संमूच्छिममनुष्याः संमूर्च्छन्ति, अङ्गुलस्यासंख्यभागमात्रयाऽवगाहनया असंज्ञिनो मिथ्यादृष्टयोऽज्ञानिनः सर्वाभिः पयोंप्तिभिरपर्याप्तकाः अन्तर्मुहूर्त्तायुष एव कालं कुर्वन्ति । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy