________________
वनस्पतिविशेषः, तस्य 'यावती' यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना - तनुरित्यर्थः, 'जघन्या' त्रिसमयाहारकशेषसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जघन्यं क्षेत्रं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - जघन्यमवधिक्षेत्रमेतावदेवेति । अत्र चायं सम्प्रदायः - यः किल योजनसहस्रपरि| माणायामो मत्स्यः स्वशरीरवायैकदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धमात्मप्रदेशानामायामं संह| त्यामुलासंख्येयभागवाहल्यं खदेहविष्कम्भायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहत्याङ्गुला सङ्ख्येयभागबाल्यविष्कम्भां मत्स्यदेह विष्कम्भायामामात्मप्रदेशानां सूचिं विरचयति, ततस्तृतीयसमये तामपि संहत्याङ्गुलासङ्ख्येयभागमात्र एव खशरीरवहिः प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्त्त - मानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेः क्षेत्रमालम्वनवस्तुभाजनमवसेयम्, उक्तं च – “योज - नसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स ग्राह्यः ॥ १ ॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । सङ्ख्यातीताख्याङ्गुलविभागवाहल्यमानं तु ॥ २ ॥ खकतनुपृथुत्वमात्रं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥३॥ सङ्ख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदीर्घा तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः खदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ५ ॥ तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदा
Jain Edualemnational
For Personal & Private Use Only
जघन्याद्य
वधिक्षेत्रकालौ.
१०
१३
www.jainelibrary.org