________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ८९ ॥
पासइ, अन्नत्थ गए न पासइ, एवामेव अणाणुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाइं जाणइ पासइ, अन्नस्थ गए ण पास से तं अणाणुगामिअं ओहिनाणं ( सू० ११
अथ किं तदानुगामिकमवधिज्ञानं १, सूरिराह - अनानुगामिकमवधिज्ञानं स-विवक्षितो यथानामकः कश्चित्पुरुषः पूर्णः सुखदुःखानामिति पुरुषः पुरि शयनाद्वा पुरुषः, एकं महज्योतिः स्थानं - अग्निस्थानं कुर्यात्, कस्मिंश्चित्स्थानेऽनेकज्वालाशतसङ्कुल मनिं प्रदीपं वा स्थूलवर्त्तिज्वालानुरूपमुत्पादयेदित्यर्थः, ततस्तत्कृत्वा तस्यैव ज्योतिःस्थानस्य' परिपर्यन्तेषु २' परितः सर्वासु दिक्षु पर्यन्तेषु 'परिघूर्णन् २' परिभ्रमन् २ इत्यर्थः, तदेव 'ज्योतिः स्थानं' ज्योतिःस्थानप्रकाशितं क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति, एष दृष्टान्तः, उपनयमाह – 'एवमेव ' अनेनैव प्रकारेणानानुगामिकमवधिज्ञानं | यत्रैव क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् सङ्घयेयानि असङ्ख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह सम्बद्धानि असम्बद्धानि वा, अवधिर्हि कोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति कोऽपि पुनरपान्तरालेऽन्तरं कृत्वा परतः प्रकाशयति तत उच्यते -सम्बद्धान्यसम्बद्धानि वेति, 'जानाति' विशेषाकारेण | परिच्छिनत्ति 'पश्यति' सामान्याकारेणावबुध्यते, 'अन्यत्र' देशान्तरे गतो नैव पश्यति, अवधिज्ञानावरणक्षयोपशमस्य तत्क्षेत्रसापेक्षत्वात् । तदेवमुक्तमनानुगामिकं सम्प्रति वर्द्धमानकमनवबुध्यमानः शिष्यः प्रश्नं करोति
Jain Education International
For Personal & Private Use Only
अनानुगामिको
वधिः
सू. ११
१५
२०
॥ ८९ ॥
२३
www.jainelibrary.org