________________
अनुगामुका
RECOMSASURESS
गामिओऽणुगच्छइ गच्छंतं लोअणं जहा पुरिसं । इयरो उ नाणुगच्छइ ठियप्पईवोध गच्छंतं ॥ १ ॥” तथा वर्द्धत इति वर्द्धमानं, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादिभिर्वर्द्धमानदहनज्वालाकलाप इव पूर्वावस्थातोश
दिभेदाः यथायोगप्रशस्तप्रशस्ततराध्यवसायभावतोऽभिवर्द्धमानमवधिज्ञानं वर्द्धमानकं, तच्चासकृविशिष्टगुणविशुद्धिसापेक्षत्वात्।। ६ तथा हीयते-तथाविधसामग्र्यभावतो हानिमुपगच्छति हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव ही-18 है यमानकं, 'कुत्सिताल्पाज्ञाते' इति कः प्रत्ययः, पूर्वावस्थातो यदधो हासमुपगच्छत्यवधिज्ञानं तत् हीयमानकमिति [५
भावः, उक्तं च-"हीयमाणं पुवावत्थाओ अहोऽहो हस्समाणं” इति । तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पन्नं सत् । क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति तत्प्रतिपातीत्यर्थः । हीयमानकप्रति-2 पातिनोः कः प्रतिविशेष इति चेद्, उच्यते, हीयमानक पूर्वावस्थातोऽधोऽधो हासमुपगच्छदभिधीयते, यत्पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत्प्रतिपाति, तथा न प्रतिपाति-यत् न केवलज्ञानादर्वाक् भ्रंशमुपयाति तद-13 प्रतिपातीत्यर्थः। आह-आनुगामिकानानुगामिकरूपभेदद्वये एव शेषभेदा वर्द्धमानकादयोऽन्तर्भावयितुं शक्यन्ते, तत्किमर्थं तेषामुपादानं ?, उच्यते, यद्यप्यन्तर्भावयितुं शक्यन्ते तथाऽप्यानुगामिकमनानुगामिकं चेत्युक्ते न वर्द्ध१ हीयमानक पूर्वावस्थातोऽधोऽधो हसत् ।
dain contatto international
For Personal & Private Use Only
www.jainelibrary.org