SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ MADARAMAILOCAKACE परः पृच्छति-तवायं केन संबन्धेन संबद्ध इति, साधुराह, कत्थई कहिंचि जाता, एवमादि, ततः पर आह-'साहल्लयत्ति, सफलता धर्मस्य, यददृष्टेऽपि परमबन्धाविव क्रिया क्रियते, 'पायडधुवणे'त्ति प्रकटं ग्लानस्योपधेर्वा क्षालनं कर्त्तव्यं, प्रकटक्षालने च लोक एवमाह, शुचिसमाचारा एते श्रमणा इति, अथासौ ग्लानोऽतिविह्वलः स्याद्-अतीव दुःखेन करालितः| स्यात्ततः 'समाहित्ति यथा प्रार्थितं भोजनादि दातव्यं येन स्वस्थचित्तो भवति, स्वस्थीभूतश्चाभिधीयते-यथाकालं कुरुवेति । अथासौ सहः-समर्थस्ततश्चाश्वास्यते-न भेतव्यं अहं त्वां प्रतिजागरामीति । ततश्च सयमेव दिपाढी करेइ पुच्छइ अयाणओ वेजं। दीवण दवाइंमि अ उवएसो जाव लंभो उ ॥७४॥ | यद्यसौ साधुः 'दृष्टपाठी' दृष्टः-उपलब्धश्चरकसुश्रुतादिर्येन स दृष्टपाठी, अथवा 'दिहत्ति वैद्यवदृष्टक्रियः क्रियाकुशलः, पाठीति सकलं वाहडादि पठति स एवंविधः स्वयमेव क्रियां करोति । अथासौ दृष्टपाठी न भवति ततः पृच्छति अज्ञः सन् वैद्यं, 'दीवण'त्ति वैद्यशालां गतः प्रकाशयति, यदुताहं कारणेनैककः संजातः, अतो निमित्तं न ग्राह्यं, 'दवादिमि यत्ति द्रव्यादिचतुष्टयोपदेशे सति तत्र द्रव्यतः प्रासुकमप्रासुकं वा क्षेत्रतः क्रीतकडा अक्रीतकडा वा वसही, कालतः प्रथमपौरुष्यामुपदिष्टं तस्यां च यदा प्रासुकं न लभ्यते तदाऽपासुकमपि क्रियते, भावतः समाधिः कर्त्तव्या प्रासुकाप्रासुकैरिति ॥ ___ कारणिअ हट्टपेसे गमणणुलोमेण तेण सह गच्छे। निक्कारणिअ खरंटण बिइज संघाडए गमणं ॥७५॥ | ___ एवमसौ ग्लानो यदि कारणिको भवति, ततः 'हहत्ति दृढीभूतः 'पेसे'त्ति प्रेषणीयः, अथ ग्लानस्याप्यनुकूलमेव गन्तव्यं भवति ततः 'गमणणुलोमेण' हेतुना तेन ग्लानेन सह गच्छेत् , उक्तः साम्भोगिकः ग्लान एकः कारणिकः, असाम्भोगिकः Jain Education For Personal & Private Use Only netbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy