________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ३० ॥
Jain Education
उडुबद्धे रयहरणं वासावासासु पायलेहणिआ । वडउंबरे पिलंखू तस्स अलंभंमि चिंचिणि ॥ २६ ॥
‘ऋतुबद्धे' शीतोष्णकाले ‘रयहरणं' ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । तथा 'वासावासामु पायलेहणिआ' वर्षासुयावद्वर्षा वर्षाकाले वर्षति सति पादलेखनिकया प्रमार्जनं कर्त्तव्यं, सा च किंमयी भवत्यत उच्यते- 'वडे' त्यादि, वटमयी उदुम्बरमयी प्लक्षमयी, 'तस्यालाभे' प्लक्षस्याप्राप्तौ चिञ्चणिकामयी अम्बिलिकामयीति । सा च कियत्प्रमाणा भवतीत्याह - बारसअंगुलदीहा अंगुलमेगं तु होइ विच्छिन्ना । घणमसिणनिघणावि अ पुरिसे पुरिसे य पत्तेअं ॥ २७ ॥ द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहो भवति, विस्तारस्त्वेकमङ्गुलं स्यात् । सा च 'घना' निविडा कार्या, मसृणा निर्व्रणा च भवति । सा च किमेकैव भवति १, नेत्याह- पुरुषे पुरुषे च प्रत्येकम् एकैकस्य पृथगसौ भवति । उभओ नहसंठाणा सच्चित्ताचित्तकारणा मसिणा ।
' उभयोः' पार्श्वयोः 'नखसंस्थाना' नखवत्तीक्ष्णा, किमर्थमसौ उभयपार्श्वयोस्तीक्ष्णा क्रियते १, सचित्ताचित्तकारणात्, तस्या एकेन पार्श्वेन सचित्तपृथिवीकायः सँल्लिख्यते, अन्येन पार्श्वनाचित्तपृथिवीकाय इति । किंविशिष्टा सा ? - 'मसिण' - त्ति, मसृणा क्रियते, नातितीक्ष्णा, यतो लिखत आत्मविराधना न भवति । पृथिवीकाययतनाद्वारं गतम् । अष्कायद्वारमाहआकाओ दुविहो भोमो तह अंतलिक्खो य ॥ २८ ॥ अप्कायो द्विविधः-भौमोऽन्तरिक्षश्च । इदानीं प्रत्यासत्तिन्यायादन्तरिक्षस्तावदुच्यते
For Personal & Private Use Only
गमनप
न्थाः पादलेखनिका
नि. २५-२८
॥ ३० ॥
elibrary.org