________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥२४॥
पुच्छाए तिणि तिआ छक्के पढम जयणा तिपंचविहा । आउम्मि दुविहतिविहा तिविहा सेसेसु काएसु॥१४॥ विहारवि। पृच्छायां सत्यां 'तिण्णि तियत्ति त्रयस्त्रिका भवन्ति, तत्र पुरुषः स्त्री नपुंसकं च, तत्रैतेषामेकैकस्त्रिप्रकारः-बालस्त- धिः नि. रुणो वृद्धश्चेति, एवमेते त्रयस्त्रिकाः, नवेत्यर्थः, तथा तेनैव साधुना गच्छता 'छक्के पढमजयणा' इति षङ्के पृथिव्यादि- १४-१५ लक्षणे यतना कर्त्तव्या, तत्र 'पढमजयणा तिपंचविहत्ति प्रथमो यः पृथ्वीकायः तस्य यतना त्रिपंचविधा, तत्र त्रिविधा सचित्तस्य अचित्तस्य मिश्रस्य च पंचविधा पृथिवीकाययतना कृष्णनीलरक्तपीतशुक्लस्येति, अथवा त्रिपञ्चविधेति-त्रयः पञ्चका पञ्चकदशप्रकारेत्यर्थः, तथाहि-सच्चित्तः पृथिवीकायः शुक्लादिः पञ्चधा, एवमचित्तो मिश्रश्च, |तथाऽप्काये 'दुविहा [ जहा जयणा ] तिविहा य' तत्र द्विधा अन्तरिक्षाप्काययतना भौमाप्काययतना च, त्रिविधा तु सच्चित्ताप्काययतना, अच्चित्ता मिश्रा०, त्रिविधा तु शेषेषु कायेषु-तेजोवायुवनस्पतित्रसाख्येषु यतना, कथं ?, सच्चि-IN त्तादि, महाद्वारगाथायाः समुदायार्थः । अथाद्यद्वारावयवार्थं पुनस्तदेवाह
पुरिसो इत्थिनपुंसग एक्केको थेर मज्झिमो तरुणो ।
साहम्मि अन्नधम्मिअगिहत्थदुगअप्पणो तइओ ॥१५॥ यदुक्तं अनन्तरगाथायां 'पुच्छाए'त्ति पृच्छायां त्रितयं संभवति, तदा पुरुषः स्त्री नपुंसकं चेति, यदुक्तं त्रयस्त्रिकाः तद्द
॥२४॥ शयन्नाह-एकैकः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः । स चैकैको नवविधोऽपि कदाचित्साधर्मिकः स्यात्कदाचित्तु नवविधोऽप्यन्यधार्मिकः स्यादित्याह-समाने धर्मे वर्तत इति साधर्मिकः-श्रावकः श्राविका नपुंसक श्रावकं च, अन्यधार्मिको
।
ब
Jain Education
For Personal & Private Use Only
wimmyanelibrary.org