SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ बद्धमन्यस्मिन् समये क्षपयति । यश्च प्रमत्तः पुरुषस्तस्यैवंविधस्य संबन्धिनं 'योग' कायादि 'प्रतीत्य' प्राप्य ये सत्त्वा व्यापाद्यन्ते 'तेषां सत्त्वानां नियमाद् अवश्यं 'सः' पुरुषो हिंसको भवति तस्मात्प्रमत्तताभाजि कर्मबन्धकारणानि । येऽपि सत्त्वा न व्यापाद्यन्ते तेषामप्यसौ नियमाद्धिंसकः, कथं ?, 'सावजो उ पयोगेण सहावद्येन वर्तत इति सावद्यःसपाप इत्यर्थः, ततश्च सावद्यो यतः 'प्रयोगेण' कायादिना 'सर्वभावेन' सर्वैः कायवाङ्मनोभिः, अतः अव्यापादयन्नपि है व्यापादक एवासौ पुरुषः सपापयोगत्वादिति । यतश्चैवमतःआया चेव अहिंसा आया हिंसत्ति निच्छओ एसो।जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ॥७५४ ॥ | आत्मैवाहिंसा आत्मैव हिंसा इत्ययं निश्चय इत्यर्थः । कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह-'जो होई' इत्यादि, यो भवति 'अप्रमत्तः' प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, 'हिंसओ इयरो'त्ति 'इतरः' प्रमत्तो यः स हिंसको भवतीत्ययं परमार्थः। अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिंसितो-विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः, ततश्च सर्वत्र हिंसाशब्दानुगमात् जीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति, सङ्ग्रहव्यवहारयोः षट्सु जीवनिकायेषु हिंसा, स-| वहश्चात्र देशग्राही द्रष्टव्यः सामान्यरूपश्च नैगमान्तर्भावी, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलश्चार्य, तथा| चाह-लोको बाहुल्येन षट्स्वेव जीवनिकायेषु हिंसामिच्छतीति, ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवे जीवे हिंसां व्यतिरिक्तामिच्छतीति, शब्दसमभिरूद्वैवंभूताश्च नया आत्मैवाहिंसा आत्मैव हिंसेति,एतदभिप्रायेणैवाह-'आया चेव' इत्यादि, आत्मैवा-17 Jain Education.in For Personal & Private Use Only arww.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy