SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीओंघनियुक्तिः द्रोणीया वृत्तिः माणं पात्रका कुर्वाणास मिहाउत्करसंग पटलरजस्त्राणकल्प प्रमाणप्रयो जने नि. ७०१-७०६ २१३॥ 'मान' प्रमाणं रजस्त्राणस्य 'भाजनप्रमाणेन' पात्रकमानेन भवति, एतदुक्तं भवति-पात्रकानुरूपं रजस्त्राणं भवति, तच्च रजस्त्राणं पात्रकस्य कथं दीयते ? अत आह-प्रदक्षिणां कुर्वाणं सत्तिर्यग् दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्ग्लानि 'क्रामति' गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीमस्यैव प्रयोजनप्रतिपादनायाह मूसयरजउक्केरे वासे सिण्हा रए य रक्खट्ठा । होति गुणा रयताणे पादे पादे य एक्ककं ॥७०४॥ __तच्च रजस्त्राणं दीयते मूषिकरजउत्केरसंरक्षणार्थ, वर्षोदकसंरक्षणार्थ, सिला-अवश्यायस्तत्संरक्षणार्थ, भवन्ति गुणा है रजस्त्राणस्यैते, तच्च पात्रे पात्रे चैकैकं भवतीति । इदानीं कल्पप्रमाणप्रमाणप्रतिपादनायाह- .. कप्पा आयपमाणा अड्डाइजा उ वित्थडा हत्था। दो चेव सोत्तिया उन्निओ य तइओ मुणेयवो ॥७०५॥ कल्पा आत्मप्रमाणाः, एतदुक्तं भवति-यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धतृ|तीयांस्तु विस्तृता हस्तान् , तत्र द्वौ सूत्रिको भवतः ऊर्णिकश्च तृतीयो विज्ञेयः । इदानीं तत्प्रयोजनप्रतिपादनायाह तणगहणानलसेवा निवारणा धम्मसुक्कझाणहा। दिट्ट कप्पग्गहणं गिलाणमरणया चेव ॥७०६॥ _तृणग्रहणनिवारणार्थ गृह्यन्ते, अनल:-अग्निस्तत्सेवानिवारणार्थ च, एतदुक्तं भवति-कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थ कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थ कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाध्यमानो | धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थ दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थ मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च ग्रहणमिति । इदानी रजोहरणस्वरूपप्रतिपादनायाह ॥२१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy