SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ पड, एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधानानि, तत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत उर्दू जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षड् पुनः हेमन्ते जघन्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदें' कालपर्यन्तै अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । इदानीमेषामेव प्रमाणप्रतिपादनायाह___ अड्डाइजा हत्था दीहा छत्तीस अंगुले रुद्दा । बितियं पडिग्महाओ ससरीराओ य निप्फन्नं ॥७०१॥ __अर्द्धतृतीयहस्तदीर्घाणि भवन्ति, षट्त्रिंशदङ्गलानि विस्तीर्णानि भवन्ति, द्वितीयमेषां प्रमाण पतन्द्रहाच्छादनैन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति, एतदुक्तं भवति-भिक्षाऽटनकाले स्कन्धः पात्रकं चाच्छाद्यते यावता तत्प्रमाणे पटला-12 नामिति । इदानी किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाह पुप्फफलोदयरयरेणुसउणपरिहारपायरक्खट्ठा। लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥७०२॥ | अस्थगिते पात्रके पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थ च पटलग्रहणतथा रजः-सचित्तपृथिवीकायस्तत्संपातरक्षणार्थ च, रेणुः-धूलिस्तत्संपातरक्षणार्थ, शकुनपरिहारः-शकुनपुरीषं तत् कदाचि-13 दाकाशानिपतति तत्पातसंरक्षणार्थ, लिङ्गसंवरणार्थ लिङ्गस्थगनं च तैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति तत्संरक्षणं स्थगनं तदर्थं च पटलानि भवन्तीति । इदानीं रजस्त्राणप्रमाणप्रतिपादनायाह माणं तु रयत्ताणे भाणपमाणेण होइ निष्फन्न । पायाहिणं करेंतं मझे चउरंगुलं कम ।। ७०३ ॥ SALUCESCACS%********* dain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy