________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१८५॥
ततोऽपवादे शुद्धं भवति, प्रथमं तु शुद्धमेव ॥ इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते स चालोको द्विविधोद्रव्यतो भावतश्च तत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह-
ठाणदिसिपगासणया भायणपक्खेवणा य भावगुरू । सो चेव य आलोगो नाणतं तद्दिसा ठाणे ॥ ५६३ ॥ स्थानं वक्तव्यं उपविशने दिग् वक्तव्या प्रकाशमुखे भाजने भोक्तव्यं, भाजनक्रमो वक्ष्यमाणः, प्रक्षेपणं वदने वक्तव्यं, भावालोको वक्तव्यः, गुरुर्वक्तव्यः, स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिक्पदमन्यथा वक्ष्यति स्थानं च ॥ इदानीं भाष्यकारः स्थाननानात्वं दर्शयति, तत्र स्थानव्याख्यानार्थमाह
निक्खमपवेस मोतुं पढमसमुद्दिस्सगाण ठायंति । सज्झाए परिहाणी भावासन्नेवमाईया ॥ २८९ ॥ (भा०) प्रथमसमुद्दिष्टानां ग्लानादीनां निर्गमप्रवेशी मुक्त्वा उपविशन्ति, किमर्थं ?, तत्र यदि ते मार्ग रुद्धा मण्डल्यां तिष्ठन्ति ततः पूर्वोक्तानां स्वाध्यायपरिहाणिर्भवति, तथा 'भावासन्नस्य' सञ्ज्ञादिवेगधारणासहिष्णोः पीडा भवति । एवमादयोऽन्येऽपि दोषाः ॥ दिग्द्वारप्रतिपादनायाह
पुत्रमहो राइणिओ एक्को य गुरुस्स अभिमुहो ठाइ । गिन्हइ व पणामेइ व अभिमुहो इहरहाऽवन्ना ॥ २८२॥ (भा० )
पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्यां, तस्यां च मण्डल्यामेकः साधुर्गुरोरभिमुख उपविशति, किमर्थं १, कदा| चित्किञ्चिद्गुरोरतिरिक्तं भवति तद् गृह्णाति दातव्यं वा किञ्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पितं, एवमर्थमभिमुख
Jain Educational
For Personal & Private Use Only
मण्डल्याः
स्थानादि नि. ५६३
भा. २८१
२८२
·∙1180411'
ainelibrary.org