________________
तिबलागमुहा मुक्को, तिक्खुत्तो वलयामुहे । तिसत्तखुत्तो जालेणं, सयं छिन्नोदए दहे ॥५४२॥ एयारिसं ममं सत्तं, सढं घटिअघट्टणं । इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया ॥५४३ ॥ अह होइ भावघासेसणा उ अप्पाणमप्पणा चेव । साहू भुजिउकामो अणुसासइ निजरहाए ॥५४४॥ बायालीसेसणसंकडंमि गहणंमि जीव ! नहु छलिओ। एहि जह न छलिज्जसि भुजंतो रागदोसेहिं ॥५४॥ जह अभंगणलेवा सगडक्खवणाण जुत्तिओ होति । इय संजमभरवहणट्टयाएँ साहूण आहारो ॥५४६॥
सगमाः, तिम्रो वारा बलाकाया मुखेनोन्मुक्त:-ऊर्द्ध क्षिप्तः त्रिकृत्वो 'वलयामुखे' कटात्मके आवर्त इव चिते. तथा त्रयः सप्तका जालात्प्रच्युतः 'सकृद्' एकवारश्छिन्नोदके द्रहे छुटितः ॥ एवंविधं मम सत्त्वं शठं मां तथा घटितपटन' घट्टितानि-संबद्धानि घट्टनानि-जालादीनि चलनानि यस्य सोऽहं घट्टितघट्टनः, तमेवंविधं इच्छसि गलेन ग्रहीतुं ?, अहो ते निर्लज्जता ॥ उक्ता द्रव्यग्रासैषणा यतोऽसौ ग्रासं कुर्वन् न क्वचिच्छलित इति । इदानीं भावग्रासैषणां प्रतिपादयन्नाह-अथ भवति भावग्रासैषणा, कथं ?, यदाऽऽत्मानमात्मनैव साधुरनुशास्ति, कदा पुनः ?-'भोक्तुकामः' भोक्तुमभिलषन् , निर्जरार्थं न तु वर्णाद्यर्थम् । किं पुनरसौ चिन्तयन्नात्मानमनुशास्तीत्याह-द्विचत्वारिंशदेषणादोषैः संकटदुष्प्रवेशं यद्गहनं-गह्वरं तस्मिन् हे जीव ! न त्वं छलितः, शेषं सुगम, यथा न व्यंस्यसे तथा कर्त्तव्यं । यथाऽभ्यङ्गलेपायथासंख्येन शकटाक्षस्य व्रणानां च युक्तितो भवंति, यथाऽभ्यङ्गः शकटाक्षे युक्त्या दीयते न चातिबहुर्न चातिस्तोको भारवहनार्थ, तथा व्रणानां च लेपो युक्त्या दीयते नातिबहु तिस्तोकः, एवं संयमभरवहनार्थ साधूनामाहारः॥
Jaमो०३०
For Personal & Private Use Only
www.jainelibrary.org