________________
*AHASA ARSLASOSANS
वेयावच्चे अब्भुट्टियस्स सद्धाए काउकामस्स । लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स ॥ ५३७॥
वैयावृत्त्यं 'नियतं सततं कुरुत, केषाम् ?-उत्तमगुणान् धारयतां साधूनां कुरुत । शेष सुगमम् । किञ्च–'प्रतिभप्रस्य' उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया नतु वैयावृत्त्यचितं-बद्धं शुभोदयं नश्यति कर्म । किञ्च'लाभेन' प्राप्त्या घृतादेः 'योजयन्' घृतादिलाभेन योजयन् , कान् !-यतीन्, लाभान्तरायं कर्म हन्ति । तथा पादप्रक्षालनादिना कुर्वन् समाधि 'सर्वसमाधि' मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्य निरुपद्रवताम्, एवं कुर्वस्त्रिरूपमपि सर्वसमाधि लभते ॥ सुगमा, नवरं 'पडितप्पहत्ति वैयावृत्त्यं कुरुत । किञ्च-भवेद्वा न वा लाभः, केषां -प्रासुकानामाहारोपध्यादीनां तथापि तस्य वैयावृत्त्यार्थमभ्युद्यतस्य साधोर्विशुद्धपरिणामस्य लाभ एव निजरायाः अवश्यं, अलाभेऽपि सति निर्जरा भवति, यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्त्यम् ॥ सुगमा, नवरं वैयावृत्त्ये 'अभ्युत्थितस्य' उद्यतस्य श्रद्धया कर्मुकामस्य लाभ एव ॥
एसा गहणेसणविही कहिया भे धीरपुरिसपन्नत्ता । घासेसणंपि इत्तो वुच्छं अप्पक्खरमहत्थं ॥ ५३८॥ सुगमा ॥ उक्का ग्रहणैषणा, अधुना ग्रासैषणोच्यते, तथा चाहदंचे भावे घासेसणा उ दमि मच्छआहरणं । गलमंसुंडगभक्खण गलस्स पुच्छेण घट्टणया ॥५३९॥
सा च प्रासैषणा द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यमङ्गीकृत्याह-द्रव्यतो मत्स्योदाहरणं, तंजहा-एगो किर मच्छबन्धो गले मंसपिंडे दाऊण दहे छुहइ, तं च एगो मच्छो जाणइ, जहा एस गलोत्ति, सो परिपेरंतणं मंसं खाइऊण ताहे
C+%%%AAKAASAN
Jain Education
a
l
For Personal & Private Use Only
Senelibrary.org