SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भो० ३० अथ तद्गुरु भिक्षाभाजनं भवति मात्रकं च गुरु गृहीतमङ्गुलीभिः, ततश्चैवं गुरुणि भाजने सति शिरसा प्रणामं करोति वाचा च नम इत्येवं ब्रूते, न हस्तोच्छ्रयं करोति, यतोऽसौ गुरोर्मात्रकस्याधो हस्तो दत्तः साधारणार्थमतोऽक्षणिकस्ततश्च नोच्छ्रयं करोति । इदानीं स्थानविशोधिं व्याख्यानयन्नाह - उवरिं हेट्ठा य पमज्जिऊण लट्ठि ठवेज सहाणे । पहं उवहिस्सुवरिं भायणवत्थाणि भाणेसु ॥ २६४ ॥ ( भा० ) उपरि-कुड्यस्थाने अधस्ताच्च भुवं प्रमृज्य पुनश्च स्वस्थाने यष्टिं स्थापयेत्, पुनश्च 'पट्टकं' चोलपट्टकमुपधेरुपरि स्थापयेत् मुञ्चति 'भाजनवस्त्राणि च ' पटलानि 'भाजनेषु' पात्रोपरि स्थापयति ॥ जइ पुण पासवर्ण से हवेज्ज तो उग्गहं सपच्छागं । दाउँ अन्नस्स सचोलपट्टओ काइयं निसिरे ॥ २६५ ॥ ( भा० ) यदि पुनस्तस्य साधोः 'प्रश्रवणं' कायिकादिर्भवति ततश्च 'अवग्रहं' पतग्रहं 'सपच्छागं' सपटलं 'दातुं' अर्पयित्वा अन्यस्य साधोः पुनश्च सह चोलपट्टकेन - चोलपट्टकद्वितीयः कायिकां व्युत्सृजति । कायिकां व्युत्सृज्य कायोत्सर्ग करोति, तत्र च को विधिरित्यत आह चउरंगुलमुहपत्ती उज्जुयए वामहत्थि रयहरणं । वोसचत्तदेहो काउस्सग्गं करेजाहि ॥ ५१० ॥ चतुर्भिरङ्गुलैर्जानुनोरुपरि चोलपट्टगं करोति नाभेश्चाधश्चतुर्भिरङ्गुलैः पादयोश्चान्तरं चतुरङ्गुलं कर्त्तव्यं, तथा मुखवस्त्रिकामुज्जुगे - दक्षिणहस्तेन गृह्णाति वामहस्तेन च रजोहरणं गृह्णाति, पुनरसौ व्युत्सृष्टदेहः - प्रलम्बितबाहुस्त्यक्तदेहः सर्पाद्युप For Personal & Private Use Only ainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy