SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ भङ्गा भवन्ति तेषां च भङ्गकानां मध्ये यस्मिन् भङ्गके कालो न पर्याप्यते तस्मिन्निवर्त्तत एव, शेषेषु चतुर्षु भङ्गेषु 'भजनां' विकल्पनां करोति सेवनां वा करोति । इदानीं भजनां दर्शयन्नाह - अण्णं च वए गामं अण्णं भाणं व गेण्ह सह काले । पढमे बितिए छप्पंचमे य भय सेस य नियन्ते ॥ ५०६ ॥ अन्यं ग्रामं वा व्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृह्णाति पर्याप्यमाणे काले सति, एवं प्रथमे भङ्गे द्वितीये च षष्ठे पञ्चमभङ्गके च 'भजन' सेवनां करोति काले सति शेषभङ्गेषु येषु कालो न पर्याप्यते तेषु 'निवर्त्तनं' गन्तव्यं भिक्षाया इत्यर्थः । स च पर्याप्यमाणः कालो द्विविधः - जघन्य उत्कृष्टश्च तत्र जघन्यप्रतिपादनायाह 1 वोसिडुमागयाणं उद्दासिअ मत्तए य भूमितिअं । पडिलेहियमत्थमणं सेसत्थमिए जहन्नो उ ॥ ५०७ ॥ सञ्ज्ञां व्युत्सृज्यागतानां मात्रकं च यस्मिन् तोयं गृहीत्वा गत आसीन्निर्लेपनार्थं तस्मिन्नुद्वासिते - शोषिते सति भूमित्र - के च- कायिकीभूमौ द्वादश स्थण्डिलानि संज्ञाभूमौ द्वादश स्थण्डिलानि कालभूमौ त्रीणि स्थण्डिलानि, एवमस्मिन् भूमित्रितये प्रत्युपेक्षिते सति यदाऽस्तमनं भवति तस्मिन् प्रदेशे 'अत्थमिए 'ति शेषोपधिं अस्तमिते आदित्ये प्रत्युपेक्षते यदा अयमित्थंभूतो जघन्यः काल इति । इदानीमुत्कृष्टकालप्रतिपादनायाह - भुत्ते वियारभूमी गयागयाणं तु जह य ओगाहे । चरमाए पोरिसीए उक्कोसो सेस मज्झिमओ ॥ १०८ ॥ भुक्ते सति विचारभूमिं गत्वाऽऽगतानां यथा 'ओगाहे' आगच्छति चरमा पौरुषी - चतुर्थः प्रहरः, अथवा चरमपौ Jain Education nonal For Personal & Private Use Only www.jamelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy