________________
अन सन्ति श्रमणाः, किंविशिष्टाः १-शोभनं विहितमेषामिति सुविहिताः-शोभनानुष्ठानाः, ततश्चैतेषामन्यतमेन कथिते IPI सति ततस्तेषामेव-श्रमणादीनां 'आलयं' आवासं गच्छेत् । ततस्तेषां आलयं प्राप्य किं करोति ? इत्याह
समणुण्णेसु पवेसो बाहिं ठविऊण अन्न किइकम्मं । खग्गूडे सन्नेसुं ठवणा उच्छोभवंदणयं ॥ ४३३ ॥ ___ यदि हि ते समनोज्ञाः-एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्ये प्रविशति अन्ये-असमनोज्ञा भवन्ति यदि ततो बाह्यत | उपकरणं स्थापयित्वा प्रविश्य 'कृतिकर्म' द्वादशावर्त्तवन्दनं ददाति, अथ ते संविग्नपाक्षिका अवसन्ना भवन्ति ततो बहिर्व्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति, अथ ते 'अवसन्नाः' खग्गूडप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा पुनश्च प्रविश्य तेषामुच्छोभवन्दनं करोति । गेलनाइ अबाहा पुच्छिय सयकारणं च दीवेत्ता । जयणाए ठवणकुले पुच्छइ दोसा अजयणाइ ॥४३४॥ | एवं सर्वेष्वेतेष्वनन्तरोदितेषु समनोज्ञादिषु प्रविश्य ग्लानाद्यबाधां पृष्ट्वा स्वकीयमागमनकारणं 'दीपयित्वा' निवेद्य
'यतनया' मधुरवागलक्षणया, यदिवा वक्ष्यमाणलक्षणया स्थापनाकुलानि पृच्छति । अयतनया पृच्छतो दोषः वक्ष्यमाजाणलक्षणो यतोऽतो यतनया पृच्छति । एतानि तानि स्थापनाकुलानि
दाणे अभिगमसड्डे संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइ जयणाइ दायंति ॥ ४३५ ॥ A दानश्राद्धकोऽभिगमश्राद्धको-यत्र कारणे आपन्ने प्रविश्यते सम्यक्त्वधरकुलं मिथ्यात्वकुलं मामाकः-मा मम समणा
घरमइंतु तत्कुलं 'अचियत्तं' अदानशीलं कुलं, एतानि कुलानि ते वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org