SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ACCORECAUSAMROSAGAROO आवस्सग सोहेउं पविसे भिक्खस्स सोहणे दोसा । उग्गाहिअवोसिरणे दवअसईए य उड्डाहो ॥२१७॥ (भा०) अवश्यं कर्त्तव्यमावश्यक-कायिकाव्युत्सर्गरूपं शोधयित्वा कृत्वेत्यर्थः, ततो भिक्षार्थ प्रविशेत् , असोधने आवश्यकस्य दोषा भवन्ति, कथं?-'उग्गाहियवोसिरणे'त्ति यद्यसौ साधुः उदाहितेन-गृहीतेनैव पात्रकेण व्युत्सृजति तत उड्डाहः, अथ तत्पात्रकमन्यस्य साधोः समर्प्य यदि व्युत्सृजति ततश्च द्रवस्यासति-अभावे सति 'उड्डाहो' उपघातो भवति । अइदूरगमणफिडिओ अलहंतो एसणंपि पेल्लेज्जा । छड्डावण पंतावण धरणे मरणं च छक्काया ॥ २१८ ॥ (भा०) | अथासौ अतिदूरं गमनं करोति स्थण्डिले ततः 'फिडिओ'त्ति भ्रष्टः सन् भिक्षावेलाया भिक्षामप्राप्नुवन्नेषणामपि 'प्रेरयेत्' अतिक्रामयेत्, अथवा तत्रैव क्वचिद्गृहासन्ने व्युत्सृजति ततः 'छड्डावण'त्ति स गृहपतिस्तदशुचि छड्डावेति, त्याजयतीत्यर्थः, अथवा पंतावणं-ताडनं कशादिना करोति, अर्थतद्दोषभयाद्धरणं करोति पुरीषवेगस्य ततो मरणभयं भवेत्, व्युत्सृजतस्तु षट्कायविराधनेति, स्थण्डिलाभावात् । 'आवस्सए'त्ति गयं, 'संघाडए'त्ति व्याख्यायतेएकाणियस्स दोसा इत्थी साणे तहेव पडिणीए।भिक्खविसोहि महत्वय तम्हा सबितिजए गमणं ॥४१॥दारं। यदि सङ्घाटकोपेतः सन् भिक्षाटनं न करोति तत एकाकिन एते दोषाः-स्त्रीकृतः श्वजनितः प्रत्यनीकजनितः भिक्षा|विशुद्धिरेकस्य न भवति तथा व्रतोपघातो भवति तस्मात्सद्वितीयेन गन्तव्यम् । इयं च प्रतिद्वारगाथा, इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति jain Education a l For Personal & Private Use Only Mainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy