________________
अच्छोडपिट्टणासु त ण धुवे धावे पतावणं न करे । परिभोगमपरिभोगे छायातव पेह कल्लाणं ॥ ३५७॥
इदानीं स साधुः प्रक्षालयन् कर्पटानि नाच्छोटयति रजकवत्, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीवत्, किन्तु हस्तेन मनाग् यतनया धावनं करोति, धौतानि च वस्त्राणि नातपे प्रतापयति, मा भूत्तत्र काचित् षट्पदी, स्यात् कानि पुनरातपे कार्याणि कानिवान ? इत्याह-'परिभोगमपरिभोगे'त्ति तानि कर्पटानि द्विविधानि भवन्ति-परिभोग्यानि अपरिभोग्यानि है च, तत्र यथासक्येन छायातपयोः कार्याणि, परिभोग्यानि छायायां शोष्यन्ते, मा भूत्तत्र षट्पदी स्यात् , अपरिभोग्यान्यातपे, 'पेहे'त्ति तानि च कर्पटानिशुष्यन्ति सन्ति निरूपयत्यपहरणभयात्।'कल्लाणगंति पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणकं प्रायश्चित्तं दीयते । उक्तोऽप्कायः, साम्प्रतमग्निकाय उच्यते____ इगपागाईणं बहुमज्झे विजुयाइ निच्छइओ । इंगालाई इयरो मुम्मुरमाई य मिस्सो उ॥ ३५८॥ ___ असावपि त्रिविधः, तत्र सचित्त इष्टकापाकादीनां बहुमध्ये विद्युदादिको नैश्चयिको भवति, अङ्गारादिश्चेतरो व्यावहारिकः मुर्मुरादिकः-उल्मुकादिमिश्रो भवति । इदानीमचित्ताग्निकायस्योपयोगमचित्ताग्निशरीरोपयोगं च दर्शयन्नाह-.
ओदणवंजणपाणगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसई पिप्पलमाई य परिभोगो ॥ ३५९॥ __ ओदनं-कूरादि व्यञ्जनं-तिम्मणं पानक-आचाम्लं आयाम-अवश्रावणं उष्णोदकं कुल्माषाश्च, एतानि अग्नेर्निवानि कार्याणि, ततश्चैभिरुपयोगः क्रियते । इदानीमग्निनिर्वर्तितशरीरोपभोग दर्शयन्नाह-डगलका-इष्टकाखण्डा अतीव पक्काः सरक्खो-भस्म सूच्यः पिप्पलक:-क्षुरकः, एवमादिभिरचित्तैरग्निशरीरैरुपयोगः क्रियते, अग्निशरीराणि च द्विविधानि भव
PRASAACANCIA-%
श्री. २३
Jain EducationNDE
For Personal & Private Use Only
E
www.jainelibrary.org