________________
पात्र चान्विति सति ग्रामादौ भवेत् पथि विराधना द्विविधा - आत्मविराधना संयमविराधना च, पथि स्तेनाश्च द्विप्रकारा भवन्ति - उपधिस्तेनाः शरीरस्तेनाश्च, लब्धेऽपि कृच्छ्रात्पात्र के तत् परिकर्मयतः - तद्व्यापारे लग्नस्य सूत्रार्थपरिहानिः ॥ एसा पडिलेहणविही कहिआ भे धीरपुरिसपन्नत्ता । संजमगुणड्डगाणं निग्गंथाणं महरिसीणं ॥ ३२८ ॥ अयं च प्रत्युपेक्षणाविधिः कथितो 'भे' भवतां, किंविशिष्टः ? - 'धीरपुरुषैः प्रज्ञप्तः' गणधरैः प्ररूपितः, संयमगुणैराढ्यानां निर्ग्रन्थानां 'महर्षीणां' सत्यवादिनां कथित इति ॥ तथा
एयं पडिलेहणविहिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचिअमनंतं ॥ ३२९ ॥ एतं प्रत्युपेक्षणाविधिं 'युञ्जन्तः' कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ? - 'अनेकभवसश्चितम् ' अनकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिर्वृत्तत्वात्तदनन्तमिति, अनन्तानां वा भवानां हेतुर्यतदनन्तं क्षपयन्तीति । उक्तं मार्गप्रत्युपेक्षणाद्वारं, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ॥ इदानीं पिण्ड द्वारप्रतिपादनायाह
पिंड व एसणं वा एत्तो वोच्छं गुरुवएसेणं । गवेसणगहणघासेसणाऍ तिविहाए विसुद्धं ॥ ३३० ॥ पिण्डं वक्ष्ये एषणां च, एषणा - गवेषणा तां च अतः परं वक्ष्ये, गुरूपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति - गवेषणैषणा ग्रहणैषणा ग्रासैषणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः शुचिर्यः पिण्डस्तं वक्ष्य इति योगः । 'यथोद्देशं निर्देश' इतिन्यायात्प्रथमं पिण्डमेव व्याख्यानयन्नाह
Jain Education leronal
For Personal & Private Use Only
Cainelibrary.org