________________
___ यानि यस्मिन् ऋतौ-शीतकालादौ प्रतापनादिभिः-अग्निप्रज्वालनादिभिः स्थण्डिलानि कृतानि तस्मिन्नेव च ऋतौ स्थण्डिलान्यचित्तानि भवन्ति, तानि स्थण्डिलानि इतरस्मिन्-अनन्तरऋतौ चिरकृतानि मिश्रीभूतानि चायोग्यानि भवन्ति । 'वासा वुच्छेय बारसगं'ति यस्मिन् प्रदेशे एकं वर्षाकालं ग्राम उषितः, स च प्रदेशो 'द्वादश' द्वादश वर्षाणि P यावत्स्थण्डिलं भवति, यत्र तु पुनवर्षामात्रमुषितो ग्रामस्तत्र भवत्येव स्थण्डिलं द्वादश वर्षाणीति । इदानीं 'विच्छिण्णं' ति8 व्याख्यानयन्नाह| हत्थायामं चउरस्स जहण्णं जोयणे बिछक्कियरं । चउरंगुलप्पमाणं जहण्णयं दूरमोगाढं ॥ १८१॥ (भा०) | विस्तीर्ण द्विधा-जघन्यमुत्कृष्टं च, तत्र जघन्यं हस्तायाम चतुरस्रं च जघन्यतो विस्तीर्ण स्थण्डिलं, 'जोयणे बिछक्क इयर'ति इतरद्-उत्कृष्टं विस्तीर्ण योजनानां द्विषट्का, द्वादशयोजनविस्तीर्णमित्यर्थः । वित्थिण्णेत्ति गयं, इदानीं 'दूरमोगाढे'त्ति व्याख्यायते, तह-'चतुरंगुलप्पमाणं चत्वार्यङ्गलानि भुवोऽधो यदवगाढं तज्जघन्यतो दूरमोगाढमुच्यते, मध्यममुत्कृष्टं च चतुर्णामङ्गुलानामधस्ताद्विज्ञेयमिति । द्वारम् । आसन्नं व्याख्यायते, तत्राह|दवासण्णं भवणाइयाण तहियं तु संजमायाए । आयापवयणसंजमदोसा पुण भावआसपणे ॥ १८२॥ (भा०) | आसन्नं द्विविधं-द्रव्यतो भावतश्च, तत्र द्रव्यासन्नं भवनादीनामासन्ने व्युत्सृजतो द्रव्यासन्नं भवति, तत्र संयमात्मोप|घातो भवति, तत्र च संयमोपघात एवं भवति-स गृहपतिस्तत्पुरीषं साधुव्युत्सृष्टं केनचित्कर्मकरेणान्यत्र त्याजयति ततश्च तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपघातो भवति, आत्मोपघातश्च स गृहपती रुष्टः सन् कदाचित्ताडयति ततश्चात्मो
al Education
For Personal & Private Use Only
Hinelibrary.org