SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सत्तमो भागो किंचिप्पूणो वहइ, इमं भणिअं होइ - सावणस्स पढमदिवसे दोहिं पएहिं पोरिसी होइ अंगुलस्स सत्तमेण भागेण किंचिप्पूणेण अहिया, एवं बितियदिवसे दो पयाई दो अ सत्तमभागा अंगुलस्स किंचिप्पूणा, एवं एयाए वुड्डिए ताव जाव सावणपुण्णमाए दो पयाई चत्तारि य अंगुलाई बुड्ढी जाया, एवं इमाइ कमवुडीए ताव नेयवं जाव पोसमासपुण्णिमा, तत्थ चउप्पया पोरिसी, ततो परं माहपढमदिवसाउ आरम्भ हाणी एतेण चैव कमेण नायबा जाव आसाढपुण्णिमा । आह - इदमुक्तं सप्तभिर्दिवसैरङ्गुलं वर्द्धते, तथा पक्षेणाङ्गुलद्वयं वर्द्धते इत्युक्तं, तदयं विरोधः, कुतो ?, यदा पक्षेणाङ्गुलद्वयं वर्द्धते तदाऽङ्गुलं | सप्तभिः सार्द्धर्दिवसैर्वर्द्धते ?, आचार्यस्त्वाह, सत्यमेतत्, किन्त्वनेनैव तत्प्रख्याप्यते - वरं किञ्चिद्वृद्धायां पौरुष्यां पारितं मा भून्यूनायां प्रत्याख्यानभङ्गभयात्, न्यूनता व पौरुध्यामेवं भवति, यदि याऽसौ मातुमारब्धा छाया तस्यां यदि प्रदीर्घायां भुङ्क्ते तदा न्यूना पौरुषी, अधिका च तदा भवति यदा सा छाया - स्वल्पा भवतीति । अधुना येषु मासेष्वहोरात्राणि पतन्ति तान् मासान् प्रतिपादयन्नाह - आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य बोद्धवा ओमरत्ताओ ॥ २८५ ॥ आषाढस्य मासस्य बहुलपक्षे - कृष्णपक्षेऽहोरात्रं पतति, तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पौषबहुलपक्षे फाल्गुनबहुलपक्षे वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति । 'ओमरत्तं' अहोरात्रं, न च तैरहोरात्रैः पतद्भिरपि पौरुष्या न्यूनता वेदिसव्या, अस्यार्थस्य ज्ञापनार्थमिदमुक्तं । एवं तावत्पौरुष्याः प्रमाणमुपगतं, या तु पुनश्चरमपौरुषी सा कियत्प्रमाणा भवतीस्वतस्तत्स्वरूपप्रतिपादनायाह Jain Education iconal For Personal & Private Use Only mainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy