________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥११३॥
राधको भवति प्रव्रज्याया वाऽऽराधकः । द्वारगाथेयम् । इदानीं भाष्यकार एतां गाथां प्रतिपदं व्याख्यानयति, तत्र 'पंचिं दिएहिं गुत्तो' त्ति प्रथमावयवं व्याख्यानयन्नाह -
इंदियविसयनिरोहो पत्ते सुवि रागदोसनि ग्गणं । अकुसलजोगनिरोहो कुसलोदय एगभावो वा ॥ १६७॥ (भा०) इन्द्रस्यामूनि इन्द्रियाणि तेषां विषयाः-शब्दादयः तेषां च यो निरोधः सा पञ्चेन्द्रियगुप्तिरभिधीयते, अयमप्राप्तानां शब्दादिविषयाणां निरोधः, तथा 'पत्तेसुवि रागदोसनिग्गहणं'ति तथा 'प्राप्तेषु' गोचरमागतेष्वपि शब्दादिष्षु विषयेषु रागद्वेषयोर्निग्रहणं यत्सा पञ्चेन्द्रियगुप्तता, तत्रेष्टशब्दादिविषयप्राप्तौ रागं न गच्छति अनिष्टशब्दादिविषयप्राप्तौ द्वेषं न गच्छतीति, भणिता पञ्चेन्द्रियगुप्तता, इदानीं 'मणमाईतिविहकरणमाउत्तया” भवति, तत्राह - 'अकुसलजोगनिरोहो' अकुशलानाम्-अशोभनानां मनोवाक्काययोगानां - व्यापाराणां यो निरोधः सा त्रिविधकरणयुक्तता, तथा 'कुसलोदय'त्ति कुशलानां प्रशस्तानां मनोवाक्कायव्यापाराणां य उदयः सा त्रिविधकरणगुप्तता, तथा 'एगभावो व'त्ति न कुशलेषु योगेषु प्रवृत्तिर्नाप्यकुशलेषु योगेषु प्रवृत्तिर्या मध्यस्थता सा त्रिविधकरणगुप्तता । भणिता त्रिविधकरणगुप्तता इदानीं तवति भण्णति
अभितरवाहिरगं तवोवहाणं दुवालसविहं तु । इंदियतो पुतो नियमो कोहाइओ बिइओ ॥ १६८ ॥ ( भा० )
अभ्यन्तरं बाह्यं च यत्तप उपधानम् - उपदधातीत्युपधानम् - उपकरोतीत्यर्थः तच्चोपधानं द्वाद्वशविधमपि तप उच्यते । तवो गओ, नियमो भण्णति, स च द्विधा - इन्द्रियनियमो नोइन्द्रियनियमश्च तत्रेन्द्रियतः - इन्द्रियाण्यङ्गीकृत्य पूर्वोक्तो नि
Jain Educationonal
For Personal & Private Use Only
प्रतिलेखनाविधिः नि. २७७
२७९ सर्वाराधकत्वं
नि. २८० भा. १६७१६८
॥११३॥
nelibrary.org