________________
श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः
॥१०१॥
यत आचार्यादीनां प्रायोग्यमात्रं नानयन्ति अनुक्तत्वात् न च प्रच्छनं कृतं येनोच्यन्ते, यत एते दोषाः परित्यागजनितास्तस्मादेतद्दोषभयात्,
आयरिए आपुच्छा तस्संदिट्ठे व तंमि उवसंते । चेहयगिलाणकजाइएस गुरुणो अ निग्गमणं ॥ २४० ॥ तस्मादाचार्यमापृछ्य गन्तव्यं । अथाचार्यः कथञ्चिन्न भवति 'तस्संदिट्ठे व'त्ति तेनाचार्येण यः संदिष्टः यथाऽमुमापृच्छ्य गन्तव्यं ततस्तमापृच्छ्थ व्रजन्ति । तस्मिन्नसति - आचार्ये अविद्यमाने क्वचिन्निर्गते, केन पुनः कारणेनाचार्यो निर्गच्छति १ अत आह- 'चेइय' 'चैत्यवन्दनार्थं ग्लानादिकार्येषु गुरोर्निर्गमनं भवति । अथाचार्येण गच्छता न कश्चिन्नियुक्तस्ततः १भण्णइ पुनित्ते आपुच्छित्ता वयंति ते समणा । अणभोगे आसन्ने काइयउच्चार भोमाई ॥ २४१ ॥
अणिते पूर्वनिर्युक्तान् - कस्मिंश्चिद्भिक्षावेलायां यः प्रागेव निर्युक्त आस्ते तमापृच्छ्य व्रजन्ति ते श्रमणा भिक्षार्थं । 'अणाभोग' त्ति 'अनाभोगेन' अत्यन्तस्मृतिभ्रंशेन गताः ततः 'आसन्ने' त्ति आसन्ने भूमिप्रदेशे यदि स्मृतं तत आगत्य पुनः कथयित्वा यान्ति, 'काइय' कायिकार्थ यो निर्गतः साधुस्तस्मै कथयन्ति यदुत वयममुकत्र गताः । 'उच्चार भोमादि'त्ति सञ्ज्ञाभूमिं यो गतस्तस्मै कथयन्ति यदुत कथनीयमहममुकत्र गत इति, आदिग्रहणात्प्रथमालिकार्थं वा यो गतस्तस्य वा हस्ते संदिशन्ति ॥
दवमाइनिग्गयं वा सेज्जायर पाहुणं च अप्पाहे । असई दूरगओवि अ नियत्त इहरा उ ते दोसा ॥ २४२ ॥ द्रवं - पानकं तदर्थं निर्गतो यः साधुस्तं दृष्ट्वा कथयन्ति, 'सेज्जायर पाहुणं च अप्पाहे ति शय्यातरं वा दृष्ट्वा संदि
Jain Educational
For Personal & Private Use Only
आपृच्छयगमनं भा. १४६-१४७ नि. २४०
२४२
॥१०१॥
inelibrary.org