________________
नियुक्तिः
चरणानुयो गमहत्ता भा.५-१०
श्रीओघ- पुनरागमादेव केवलादिति । आह-दर्शमशुद्ध्यैव किम् ?, तदाह-दर्शनशुद्धस्य' दर्शनं शुद्धं यस्यासौ दर्शनशुद्धस्तस्य 'चरणं'
चारित्रं भवतीत्यर्थः, तुशब्दो विशेषणे, चारित्रशुद्धस्य दर्शनमिति ॥ अथवा प्रकारान्तरेण चरणकरणानुयोगस्यैव प्राधान्यं द्रोणीया वृत्तिः
प्रतिपाद्यते आदिभूतस्यापीति, तच्च दृष्टान्तबलेनाचलं भवति नान्यथेत्यतो दृष्टान्तद्वारेणाह
जह रण्णो विसएसुं वयरे कणगे अ रयय लोहे अ।चत्तारि आगरा खलु चउण्ह पुत्ताण ते दिन्ना ॥८॥(भा०) ॥९॥
. 'यथे'त्युदाहारणोपन्यासे राज्ञो 'विषयेषु' जनपदेषु 'वज्र' इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानि
वज्राकरः। 'चिन्ता लोहागरिए'त्ति इत्यतः सिंहावलोकितन्यायेनाकरग्रहणं संबध्यते, एतेन कारणेन 'होति उत्ति इत्यस्माद्भहै वति क्रिया सर्वत्र मीलनीयेति । 'कनक' सुवर्ण तस्याकरो भवति द्वितीयः, 'रजत' रूप्यं तद्विषयस्तृतीय आकरो भवति,
चशब्दः समुच्चये, अनेकभेदभिन्नं रूप्याकरं समुच्चिनोति, 'लोहे यत्ति लोहमयस्तस्मिन् लोहे-लोहविषयश्चतुर्थ आकरो भवति, चशब्दो मृदुकठिनमध्यलोहभेदसमुच्चायकः, 'चत्वारः' इति सङ्ख्याः, आक्रियन्त एतेष्वित्याकराः, तथा च मर्याद-दू याऽभिविधिना वा क्रियन्ते वज्रादीनि तेष्विति, खलुशब्दो विशेषणे, किं विशिनष्टि-सविषयाः सहस्त्यादयश्चते पुत्रेभ्यो दत्ताः, चतुर्णा 'पुत्राणां' सुतानां 'ते' इत्याकरा 'दत्ताः' विभक्ता इत्यर्थः॥अधुना प्रदानोत्तरकालं यत्तेषां संजातं तदुच्यतेचिंता लोहागरिए पडिसेहं सो उ कुणइ लोहस्स। वयराईहि अगहणं करिति लोहस्स तिनियरे ॥९॥(भा०) __ लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन् लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधान आकरो दत्तः,
DESSISSISSA
Jain Educa
For Personal & Private Use Only
brary og