________________
बलवत्त्वात् , तथाऽपि चरणकरणानुयोगस्य न कर्तव्येति, एवं चोदकेनाशङ्किते सत्याह गुरुः-'तहवि अ महिड्डिअं चरण 'तथापि'एवमपि स्वविषयबलवत्त्वेऽपि सति महर्द्धिकं चरणमेव, शेषानुयोगानां चरणकरणानुयोगार्थमेवोपादानात् , पूर्वो- त्पन्नसंरक्षणार्थमपूर्वप्रतिपत्त्यर्थं च शेषानुयोगा अस्यैव वृत्तिभूताः, यथा हि कर्पूरवनखण्डरक्षार्थ वृत्तिरुपादीयते, तत्र हि कर्पूरवनखण्ड प्रधानं न पुनर्वृत्तिः, एवमत्रापि चारित्ररक्षणार्थ शेषानुयोगानामुपन्यासात् , तथा चाह-'चारित्तरक्खणवा जेणियरे तिन्नि अणुओगा' चयरिक्तीकरणाच्चारित्रं तस्य रक्षणं तदर्थ चारित्ररक्षणार्थ येन कारणेन 'इतरें' इति धर्मानुयोगादयस्त्रयोऽनुयोगा इति । एवं व्याख्याते सत्याह-कथं चारित्ररक्षणमिति चेत्तदाहचरणपडिवत्तिहेउं धम्मकहा कालदिक्खमाईआ। दविए दंसणसुद्धी दंसणसुद्धस्स चरणं तु ॥७॥ (भा०) | चर्यत इति चरणं-व्रतादि तस्य प्रतिपत्तिश्चरणप्रतिपत्तिः चरणप्रतिपत्तेः हेतुः कारणं निमित्तमिति पर्यायाः, किम् ? तदाह-'धर्मकथा' दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मस्तस्य कथा-कथनं धर्मकथा चरणप्रतिपत्तेर्हेतुर्धर्मकथा, तथाहिआक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तो भव्यप्राणिनश्चारित्रमवाप्नुवन्ति, 'कालदिक्खमाईय'त्ति कलनं कालः कलासमूहो वा कालस्तस्मिन् काले दीक्षादयः-दीक्षणं दीक्षा-प्रव्रज्याप्रदानम् आदिशब्दादुपस्थापनादिपरिग्रहः, तथा च शोभनतिथिनक्षत्रमुहूर्त्तयोगादौ प्रव्रज्याप्रदानं कर्त्तव्यम् , अतः कालानुयोगोऽप्यस्यैव परिकरभूत इति, दविएत्ति द्रव्ये द्रव्यानुयोगे, किं भवति ?, इत्यत आह-'दर्शनशुद्धिः' दर्शन-सम्यग्दर्शनमभिधीयते तस्य शुद्धिः-निर्मलता दर्शनशुद्धिः, एतदुक्तं भवतिद्रव्यानुयोगे सति दर्शनशुद्धिर्भवति, युक्तिभिर्यथाऽवस्थितार्थपरिच्छेदात् , तदत्र चरणमपि युक्त्यनुगतमेव ग्रहीतव्यं, न
Jain Education
a
l
For Personal & Private Use Only
elibrary.org