SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Jain Educational माना न गच्छन्ति, किन्त्वेवं भणन्ति - 'न तुज्झ सामी' नास्य प्रदेशस्य भवन्तः स्वामिनः, ततश्च असंखर्ड भवति । 'मंडलीए वत्ति अथ मण्डल्यां जातायां सत्याम् कोहल आगमणं संखोभेणं अकंठगमणाई । ते चेव संखडाई व सहिं व न दंति जं वनं ॥ १८९ ॥ मण्डलिकायां जातायां कौतुकेन सागारिका आगमनं कुर्वन्ति, ततश्च 'संखोभेणं' ति संक्षोभेण तेषां प्रत्रजितानां अकण्ठगमणादि - कण्ठेन भक्तकवलो नोपक्रामति, 'ते चैव संखडाई'ति त एव वा संखडादयो दोषा भवन्ति 'वसहिं व ण देंति' एवं च सागारिका रुष्टाः सन्तो वसतिं न प्रयच्छन्ति, तत्र ग्रामे 'जं वऽण्णं' ति ग्रहणाकर्षणादि कुर्वन्ति । इदानीं तस्माद्रामादन्यत्र ग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषाः भारेण बेयणाए न पेहए थाणुकंद आयाए । इरियाइ संजमंमि अ परिगलमाणेण छक्काया ॥ १९० ॥ उपधिभिक्षाभारेण या वेदना क्षुद्वेदना वा तया न 'पेहइ'त्ति न पश्यति स्थाणुकण्टकादीन् ततश्चात्मविराधना भवति, 'इरियाई 'त्ति संयमविषया विराधना ईर्यादि, तथा परिगलमाने च पानादौ पट्कायविराधना भवति । तथा चैते चान्यत्र ग्रामे गच्छतां दोषा भवन्ति | सावयतेणा दुविहा विराहणा जा य उबहिणा उ विणा । तणअग्गिगहण सेवण विद्यालगमणे इमे दोसा ॥ १९९ ॥ श्वापदभयं भवति, तथा तेणा दुविहा भवन्ति - शरीरापहारिण उपध्यपहारिणश्च, 'विराहणा जा य उवहिणा उ विणा' या च 'उपधिना' संस्तारकादिना विना विराधना भवति, का चासौ ? - 'तण अग्गिगहणसेवणा' यथासङ्ख्यं तृणानां ग्रहणे For Personal & Private Use Only Phelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy