________________
श्रीओघ
नियुक्तिः द्रोणीया वृत्तिः
वसत्येषणा नि.१८५| अभुक्ता
प्रवेश १८६-१८८
॥७९॥
धना, ततश्च बहिरेव भुक्त्वा विकाले प्रविशन्तु, आचार्यस्त्वाह-बहिर्मुञ्जतां दोषाः, कथं ?-मण्डलिबन्धे सति आगमनं भवति सागारिकाणां, तत्र च संयमात्मविराधना भवति 'वियालगहणे'त्ति विकालवेलायां च वसतिग्रहणे ये दोषा भवन्ति ते वक्ष्यन्ते । द्वारगाथेयं । चोदकपृच्छेति व्याख्यानयन्नाहअइभारेण उ इरिन सोहए कंटगाइ आयाए । भत्तहिअ वोसिरिआ अइंतु एवं जढा दोसा ॥ १८७॥
चोदक एवमाह यदुत गच्छसमीपादुपधिं प्रवेशयन् तदतिभारेण बुभुक्षया च पीडितः सन्नीर्यापथिकां न शोधयति यतोऽतः संयमविराधना भवति, तथा कण्टकादीनि च न पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना भवति, तस्माद् 'भत्तढ़ियत्ति बहिरेव भुक्ताः सन्तः, तथा 'वोसिरियत्ति उच्चारप्रश्रवणं कृत्वा ततः 'अइंतु'त्ति प्रविशन्तु, क ?-वसतौ, 'एवं जढा दोस'त्ति एवं क्रियमाणे दोषाः-आत्मविराधनादयः परित्यक्ता भवन्ति । एवमुक्ते सत्याहाचार्यः
आयरिअवयण दोसा दुविहा नियमा उ संजमायाए । वच्चह न तुज्झ सामी असंखडं मंडलीए वा ॥ १८८॥ ___ आचार्यस्य वचनं आचार्यवचनं, किं तदित्याह-दोसा' बाह्यतो भुञ्जतां दोषा भवन्ति द्विविधाः 'नियमाद्' अवश्यतया, 'संजम'त्ति संयमविराधनादोषः 'आयाए'त्ति आत्मविराधनादोषः । तत्र संयमविराधनादोष एवं भवति-तत्र च भोजन-1 स्थाने सागारिका यदि बहवस्तिष्ठन्ति ततस्ते साधवो भिक्षामटित्वा गताः सन्तो यद्येवं भणन्ति-यदुत वच्चह-हे सागारिका गच्छतास्मात्स्थानात् , ततश्चैवमुच्यमाने संयमविराधना भवति । आत्मविराधना चैवं भवति-यदा ते सागारिका उच्य
jain Education
For Personal & Private Use Only
Kalinelibrary.org