________________
ओो० २ Jain Education
ष्ठानं च यत्सा प्रतिलेखना, सा च चोलपट्टादेरुपकरणस्येति 'गुत्तीओ'त्ति गोपनानि गुप्तयो - मनोवाक्कायरूपास्तिस्रः 'अभिग्गह'त्ति अभिग्रहा द्रव्यादिभिरनेकप्रकाराः, चशब्दो वसत्यादिसमुच्चयार्थः, एवकारः क्रमप्रतिपादनार्थः, 'करणं तु'त्ति क्रियत इति करणं, मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः, तुशब्दो विशेषणे, मूलगुणसद्भावे करणत्वमस्य, नान्यथेति । आह- ननु समितिग्रहर्णेनैव पिण्डविशुद्धेर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमितौ सर्वेषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः १ इति, अत्रोच्यते, पिण्डव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तस्या ग्रहणं भविष्यति, तत्र पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य प्रतिपादनार्थः, अथवाऽऽहारमन्तरेण न शक्यते पिण्डविशुध्यादि करणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति । अत्राह - चरणकरणयोः कः प्रतिविशेषः ? इति, अत्रोच्यते, नित्यानुष्ठानं चरणं, यत्तु प्रयोजन आपन्ने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते न पुनर्ब्रतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादि तु प्रयोजने आपन्ने क्रियत इति । एवं व्याख्याते सत्याह परः“ओहेण उ निजुत्तिं वुच्छं चरणकरणाणुओगस्स” इत्येवं वक्तव्यं, तत्किमर्थं षष्ठयुल्लङ्घनं कृत्वा पञ्चम्यभिधीयते, इत्यस्यार्थस्य प्रतिपादनार्थमिदं गाथासूत्रमाह
चोदगवयणं छट्ठी संबंधे कीस न हवइ विभत्ती । तो पंचमी उ भणिया, किमत्थि अन्नेऽवि अणुओगा ||४|| (भा०)
व्याख्या- 'चोदग' त्ति चोदकवचनं, किंभूतम् ?, तदाह - षष्ठी संबन्धे किमिति न भवति विभक्तिः ?, संबन्धनं संबन्धस्तस्मिन् | संबन्धे षष्ठी किमिति न भवति ?, एतदुक्तं भवति-चरणकरणानुयोग संबन्धिनीमोघनिर्युक्तिं वक्ष्य इति वाच्यं तदुलङ्घनं
For Personal & Private Use Only
nelibrary.org