SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ६ ॥ Jain Education श्चायं न्यायो यथा - ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्ठस्यापि ग्रहणं कृतमेव, तथाऽपि प्राधान्यात्तस्य भेदेनोपन्यासः क्रियत इति, तथा यच्चोक्तं- तपोग्रहणे वैयावृत्त्यविनययोर्न ग्रहणं कर्तव्यं, तदप्यचारु, वैयावृत्त्यविनययोर्यथा स्वपरोपकारकत्वात्प्राधान्यं नैवमनशनादीनां तपोभेदानामिति, यच्चोक्तं- श्रमणधर्मग्रहणे क्रोधादिनिग्रहस्य नोपन्यासः कर्त्तव्यः, तदप्यचारु, इह द्विरूपः क्रोधः - उदयगत उदीरणावलिकागतश्च तत्रोदयगतनिग्रहः क्रोधनिग्रहः, एवं मानादिष्वपि वाच्यं यस्तु उदीरणावलिकाप्राप्तस्तस्योदय एव न कर्तव्यः क्षान्त्यादिभिर्हेतुभिरिति, अथवा त्रिविधं वस्तु - ग्राह्यं हेयमुपेक्षणीयं च तत्र क्षान्त्यादयो ग्राह्याः क्रोधादयो हेयाः, अतो निग्रहीतव्यास्त इत्येवमर्थमित्थमुपन्यस्ता इति स्यात्साधु सर्वमेवैतद्गाथासूत्रमिति ॥ अधुना करणावयवप्रतिपादनार्थमिदं गाथासूत्रमाह पिंड विसोही सॅमिई भार्वेण पडिमी य इंदियॅनिरोहो । पडिले हे गुंतीओ अभिग्गहा चैव करणं तु ॥ ३ ॥ ( भा० ) अस्या व्याख्या- 'पिंड' त्ति पिण्डनं पिण्डस्तस्य विविधम्- अनेकैः प्रकारैः शुद्धिः आधाकर्मादिपरिहारप्रकारैः पिण्डविशुद्धिः, सा किम् ?, करणं भवतीति योगः, 'समिति'त्ति सम्यगिति ः- सम्यग्गमनं प्राणातिपातवर्जनेनेत्यर्थः, जातावेकवचनं, | ताश्चेर्यासमित्यादयः समितयः, 'भावण'त्ति भाव्यन्त इति भावनाः - अनित्यत्वादिकाः 'पडिम' त्ति प्रतिमा:- अभिग्रहप्रकारा मासाद्या द्वादश भिक्षुप्रतिमाः, चशब्दाद्भद्रादयश्च प्रतिमा गृह्यन्ते, 'इंदियनिरोहो' त्ति इन्द्रियाणि - स्पर्शनादीनि तेषां निरोधः, आत्मीयेष्टानिष्टविषय रागद्वेषाभाव इत्यर्थः, 'पडिलेहण' इति प्रतिलेखनं प्रतिलेखना 'लिख अक्षर विन्यासे' अस्य प्रतिपूर्वस्य ल्युङन्तस्यानादेशे टापि च विहिते प्रतिलेखनेति भवति, एतदुक्तं भवति - अक्षरानुसारेण प्रतिनिरीक्षणमनु For Personal & Private Use Only करणस ततिः भा. ३ ॥ ६ ॥ anelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy