________________
तत्र वामपाोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्रं बुद्ध्या कल्पयित्वा तत इदमुच्यते-'शृङ्गखोडे' शृङ्गप्रदेशे यदि वसतिं करोति ततः कलहो भवतीति क्रिया वक्ष्यति, 'स्थानं' अवस्थितिर्नास्ति 'चरणेषु' पादप्रदेशेषु, 'अधिष्ठाने' अपानप्रदेशे वसतौ क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया । 'पुच्छे' पुच्छप्रदेशे ‘फेडणं' अपनयनं भवति वसत्याः॥ मुखमूले चारी भवति, शिरसि-शृङ्गयोर्मध्ये ककुदे च पूजासत्कारो भवति, स्कन्धे पृष्ठे च भारो भवति, साधुभिरागच्छद्भिराकुला भवति, उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः । वसतिर्व्याख्याता, तव्याख्यानाच्च देवकुलशून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् । इयं च वृषभपरिकल्पना यावन्मानं वसतिनाऽऽक्रान्तं तस्मिन् नोपरिष्टात् , उपरिष्टात्तु तदनुसारेण कर्त्तव्या वसतिः । अधुना ‘पाउग्गअणुण्णवण'त्यमुमेवावयवं व्याख्यानयन्नाह, तत्र प्रायोग्यानामनुज्ञापना कर्तव्या-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः
दवे तणडगलाई अच्छणभाणाइधोवणा खेत्ते । काले उच्चाराई भावेण गिलाणकूरुवमा॥७८॥ (भा०) ___ 'द्रव्यतः' द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थ डगलानां च-अधिष्ठानप्रोञ्छनार्थ लेष्ट्रनामनुज्ञापना क्रियते । क्षेत्रे' क्षेत्रविषयाऽनुज्ञापना 'अच्छणं ति आस्या यत्रास्यते यथासुखेन स्वाध्यायपूर्वकं 'भाणादिधोवणा' भाजनादिधावन-क्षालनं पात्रकादेर्यत्र क्रियते सा क्षेत्रानुज्ञा । कालविषयाऽनुज्ञा दिवा रात्रौ वा उच्चारादिव्युत्सर्जनम् । भावविषयाऽनुज्ञापना ग्लानादेः साम्यकरणार्थ निवातप्रदेशाद्यनुज्ञापना क्रियते । इदानीं 'वियालणे तस्स परिकहण'त्ति अमुमवयवं व्याख्यानयन्नाह, 'कूरुवमा' यदा शय्यातर एवं ब्रूते-इयति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात् , तदा तस्य परिकथना क्रियते
Jain Education
For Personal & Private Use Only
brary.org