SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः स्थानविधिक |नि. १०९. ११० स्थानकार णानि नि. १११ ॥५ ॥ 'झाण'त्ति अथ तद्धर्मकथायाः प्रतिघातं कर्तुं न शक्नोति ततो ध्यानं करोति, ध्यायन्नास्ते धर्मध्यानं, अथ तथाऽपि धर्मकथां करोति ततः 'अज्झयण'त्ति धर्मकथाव्याघातार्थमध्ययनं करोति, अथ तथाऽपि न तिष्ठति ततः कौँ स्थगयति धर्मकथाव्याघातार्थमिति । अथवा 'सुवणाहरणा यत्ति सुप्तः सन् आहरणा-घोरयति घोरणं करोति महता शब्देन, सोऽपि | निर्विण्णः सन् उपसंहरति धर्मकथामिति । उक्तं वसतिद्वारं, षष्ठे द्वारे स्थानस्थितो भवति इदमुक्तं, स च एभिः कारणैः| असिवे ओमोयरिए रायदुट्टे भए नदुहाणे । फिडिअगिलाणे कालगवासे ठाणहिओ होइ ॥ १११॥ । 'असिवे देवताजनितोपद्रवे सति तस्मिन् यत्राभिप्रेतं गमनं कदाचिदपान्तराले वा भवति ततश्चानेन कारणेन स्थानस्थितो भवति, 'ओमोयरिए'त्ति दुर्भिक्षं विवक्षिते देशे जातमपान्तराले वा ततश्च स्थानस्थितो भवति, 'रायदुहे'त्ति राजद्विष्टं कदाचित्तत्र भवत्यभिप्रेतदेशे अन्तराले वा तेनैव कारणेन स्थानस्थितो भवति, 'भएत्ति म्लेच्छादिभयं विवक्षिते देशे अपान्तराले वा तेन कारणेन स्थानस्थितो भवति, 'नई'त्ति कदाचिन्नदी विवक्षिते देशेऽपान्तराले वा भवति तेन प्रतिबन्धेन स्थानस्थितो भवति ('उहिए'त्ति कदाचित्तत्रापान्तराले वा उद्वसितं जातं तेन कारणेन स्थानस्थितो भवति) 'फिडि| यत्ति कदाचिदसावाचार्यः तस्मात् क्षेत्रात् च्युतः-अपगतो भवति ततश्च तावदास्ते यावद्वार्ता भवति, अनेन कारणेन स्थानस्थितो भवति । 'गिलाणे'त्ति ग्लानः कदाचिन्मनाम् भवति स्वयं कदाचिदन्यः कश्चिद् ग्लानो भवति तेन प्रतिबन्धेन स्थानस्थितो भवति । 'कालगय'त्ति कदाचिदसावाचार्यः कालगतो-मृतो वा भवति, यावत्तन्निश्चयो भवति तावत्स्थान ॥५ ॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy