________________
व्रजतः साधोरेतेष्वनन्तरोदितेषु वसतेर्मार्गणा-अन्वेषणं कर्त्तव्यम् । इयं द्वारगाथा वर्त्तते । इदानीमेतामेव गाथां प्रतिपदं व्याख्यानयन्नाह
वसही समणुण्णेसुं निइयाद्मणुण्ण अण्णहि निवेए।संनिगिहि इत्थिरहिए सहिए वीसुं घरकुडीए ॥१०॥ || वसतिरन्वेषणीया, क्व?, अत आह-'समणुण्णेसुं' संविग्नसमनोज्ञेषु आदौ वसतिरन्वेषणीया, 'नितियादमणुन्न अण्णहि ६
निवेए' अथ तु तत्र नित्यवास्यादयः अमनोज्ञा अन्यसामाचारीप्रतिबद्धा वा भवन्ति, आदिशब्दात्पार्श्वस्थादयो गृह्यन्ते, ततश्चैतेषु विद्यमानेषु नैतेषां मध्ये निवसितव्यं, किन्तु 'अण्णहिं' अन्यत्र वसतिं कृत्वा 'णिवेदें निवेदयित्वा एषामेव-यथाऽमुमिन् अहं वसिष्यामि प्रतिजागरणीयो भवद्भिरिति, क्वासौ निवसति ? किंविशिष्टे वा गृहे निवसति ?-सब्जी-श्रावकः, स च यदि महिलया रहितस्ततस्तद्गृहे वसति, अथासौ नास्ति ततः 'गिहित्ति गृही भद्रकोऽत्र सूचितः, स च स्त्रिया रहितस्तत्समीपे वसति, अथ भद्रकोऽपि स्त्रीरहितो नास्ति किन्तु सहितः स्त्रिया, ततः सहिते-स्त्रीयुक्ते सति 'वीसुति पृथग्
निवसति, क्व ?-'घरकुटीए' तस्यैव गृहस्थस्य बहिरवस्थितं धनकादि, अथवा तत्फलहिकान्तर्गतकुट्यां वा निवसति । द अथ भद्रकादिगृहं नास्ति ततः शून्यगृहे निवसति । किंविशिष्टे ?, अत आह| अहुणुवासिअ सकवाड निब्बिले निचले वसइ सुण्णो । अनिवेइएयरेसिं गेलन्ने न एस अम्हंति ॥ १०६॥ I 'अहुणुवासियत्ति अधुना यदुद्वसितं तदपि सकपाटं यदि भवति तदपि निर्बिलं भवति निर्बिलमपि यदि निश्चलं भवति न पतनभयं यत्र तत्र वसितव्यं, तत्र चैते गाथोपन्यस्तानां चतुर्णा पदानां षोडश भङ्गका निष्पद्यन्ते, स चैवंविधे गृहे
Jain Education
For Personal & Private Use Only
nelibrary.org