________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ५५ ॥
Jain Education
तावद्वाह्या द्रव्यतः प्रत्युपेक्षणा । आह - अनन्तरमाथायां अभ्यन्तरायाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, ततस्तामेव व्याख्यातुं युक्तं न तु बाह्यामिति, उच्यते, प्रथमं तावद्वायैव प्रत्युपेक्षणा भवति पश्चादाभ्यन्तरा, अतो बाह्यैव व्याख्यायते, आह-किमितीत्थमेव नोपन्यासः कृतः ?, उच्यते, अभ्यन्तरप्रत्युपेक्षणायाः प्राधान्यख्यापनार्थमादावुपन्यासः कृतः । एवं तावद्वाह्या प्रत्युपेक्षणा द्रव्यत्तोऽभिहिता, इदानीं बाह्यां प्रत्युपेक्षणां भावतः प्रतिपादयन्नाह -
विकहा हसिउग्गाइय भिन्नकहा चक्कवालछलिअकहा । माणुसतिरिआवाए दायणआयरणया भावे ॥ ९९ ॥ 'विकथा' विरूपा कथा अथवा 'विकथा' स्त्रीभक्तचौरजनपदकथा तां कुर्वन्तो व्रजन्ति, तथा हसन्त उद्गायन्तश्च व्रजन्ति, 'भिन्नकह' त्ति मैथुनसंबद्धा रामसिका कथा तां कुर्वन्सो व्रजन्ति, 'चक्कवाल'त्ति मण्डलबन्धेन स्थिता व्रजन्ति, 'छलिअकह' त्ति पद्मज्ञकगाथाः पठन्तो गच्छन्ति, तथा 'माणुसतिरिआवाए ति मानुषापाते तिर्यगापाते सञ्ज्ञां व्युत्सृजन्ति, 'दायण'त्ति ( दर्शनता) परस्परस्याङ्गुल्या किमपि दर्शयन्ति इयमेव आचरणता दर्शनताऽऽचरणता, भावे'त्ति द्वारपरामर्शः, इयं बाह्यभावमङ्गीकृत्य प्रत्युपेक्षणा, एवं बाह्यप्रत्युपेक्षणयाऽशुद्धानपि साधून् दृष्ट्वा प्रविशति, कदाचित्ते गुरोरनादेशेनैव एवं कुर्वन्ति । एतदेव प्रतिपादयन्नाह -
बाहिं जइवि असुद्धा तहावि गंतूण गुरुपरिक्खा उ । अहब विसुद्धा तहवि उ अंतो दुबिहा उ पडिलेहा ॥१००॥ बाह्यप्रत्युपेक्षणामङ्गीकृत्य यद्यप्यशुद्धास्तथाऽपि प्रविश्य गुरोः परीक्षा कर्त्तव्या, अथवा बाह्यप्रत्युपेक्षणया विशुद्धा एव भवंति तथाऽपि त्वन्तः - अभ्यन्तरतः अभ्यन्तरां प्रत्युपेक्षणामाश्रित्य द्विविधैव प्रत्युपेक्षणा भवति कर्त्तव्या - द्रव्यतो भाव
For Personal & Private Use Only
साधुपरीक्षा नि. ९८९९-१००
॥ ५५ ॥
inelibrary.org