SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ यदि शुद्धाः-संवासशुद्धाः, के अभिधीयन्ते ?, प्रशस्तश्रुतगुणास्तथा प्रशस्ताज्ञातगुणाश्च, तेष्वेवंविधेषु संवासं-संवसनं करोति । 'होइ असुद्धाण दुविह पडिलेहा' भवत्यशुद्धानां द्विविधा प्रत्युपेक्षणा, तत्राशुद्धा अप्रशस्तश्रुतगुणास्तथाऽप्रशस्तज्ञातगुणा अशुद्धा अभिधीयन्ते, तद्विषयं द्विविधं प्रत्युपेक्षणं भवति, कथम् -'अभितरबाहिरिआ' एका अभ्यन्तरप्रत्युपेक्षणाऽभ्यन्तरेत्यर्थः, अपरा बाह्यप्रत्युपेक्षणा, 'दुविहा दवे य भावे य' एकैका च प्रत्युपेक्षणा द्विविधा, ‘दवे य भावे य' याऽसौ अभ्यन्तरा प्रत्युपेक्षणा सा द्रव्यतो भावतश्च भवति, याऽपि बाह्या प्रत्युपेक्षणा साऽपि द्रव्यतो भावतश्चेति द्विविधैव । 18| इदानीं बाह्यां प्रत्युपेक्षणां द्रव्यतः प्रतिपादयन्नाह| घडाइतलिअदंडग पाउय संलग्गिरी अणुवओगो। दिसि पवणगामसूरिअ वितहं उच्छोलणा दवे ॥९८॥ 'घटादित्ति घृष्टा जङ्घासु दत्तफेनका, आदिशब्दात्तु मट्ठा तुप्पोहादयो गृह्यन्ते, 'तलिगत्ति सोपानकाः-उपानढपादाः 'दंडग'त्ति चित्रलतादण्डकैर्गृहीतैः 'पाउयमिति प्रावृतं यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं 'संलग्गिरित्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा संलग्गिरीति युगलिता ब्रजन्ति, 'अणुवओगोत्ति अनुपयुक्ता ब्रजन्ति, ईर्यायामनुपयुक्ताः, एवं बहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानी सज्ञाभूमीप्राप्तान संयतान् प्रत्युपेक्षते-'दिसि'त्ति आगमोक्तदिग्विपर्यासेनोपविशन्ति, 'पवण'त्ति पवनस्य प्रतिकूलमुपवेष्टव्यं ते तु आनुकूल्येन पवनस्योपविशन्ति, 'गाम'त्ति ग्रामस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति, 'सूरिय'त्ति सूर्यस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति । एवमुक्तेन प्रकारेण वितथं कुर्वन्ति, 'उच्छोलणत्ति पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति, 'दवेत्ति द्वारपरामर्शः, इयं GAAAAAAACARIES मो. Bain Education For Personal & Private Use Only ithelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy