________________
तया हि परिशाच्या निपतन्त्या पृथिवीकायादि विध्वस्यते इति । 'पंचेव'त्ति तत्र चीरोपरि अस्थण्डिलस्थः कियद्भक्षयति?
त्रीन् पञ्च वा कवलान् । 'सेसं जा थंडिल्लं' शेष-अपरं भक्तं तावन्नयति यावत्स्थण्डिलं प्राप्तम् । 'असईए'त्ति अपान्तराले हस्थण्डिलस्यासति 'अण्णगामंमि'त्ति अन्यन्द्रामं प्रयाति, तत्र च स्थण्डिले भुत इति । इदानीं यदुक्तं 'कालदुवे'त्ति नियुक्ति
कृता तद्भाष्यकृद् व्याख्यानयन्नाह| अपहुप्पंते काले तं चेव दुगाउयं नइक्कामे । गोमुत्तिअदड्डाइसु भुंजइ अहवा पएसेसुं॥६४ ॥ (भा०)
अथ तस्य भिक्षोर्गच्छतो योऽसावभिप्रेतो ग्रामः स क्रोशत्रये संजातः, तत्र च यदि कालः पर्याप्यते ततस्तद्भक्तं पूर्वगृहीतं परित्यज्यान्यद्हाति, अथास्तमयकाल आसन्नस्ततः 'तं चेव'त्ति तदेव पूर्वगृहीतं भक्तं क्षेत्रातिक्रान्तमपि भुते, 'दुगाउअं नइक्कामे'त्ति यदा तु कालः पर्याप्यते तदा तत्पूर्वगृहीतं भक्तं द्विगव्यूतात्परतो नातिकामयति-न नयति, गव्यूतद्वय एव तत्परित्यज्य याति, तत्र च गतः काले पर्याप्यमाणेऽन्यद् ग्रहीष्यतीति, यदा पुनस्तस्य साधोव्रजतः क्रोशद्वयव्यवस्थितग्रामस्यारत आदित्योऽस्तमुपयाति न चान्तराले स्थण्डिलमस्ति तदा 'गोमुत्तिगदहादिसु भुंजे' गोमूत्रदग्धेषु देशेषु भुञ्जीत, आदिशब्दात्सूकरोत्कीर्णभूप्रदेशादौ भुङ्ग इति, 'अहवा पएसेसुत्ति यदि गोमूत्रदग्धादिस्थानं न भवति ततो धर्माधर्माकाशास्तिकायकल्पनां तस्मिन् स्थाने कृत्वा भुङ्क्ते, एतदुक्तं भवति-धर्माधर्माकाशास्तिकायैस्तिरोहितायां भुवि ऊर्द्धव्यवस्थितः, ततश्चानया यतनया सशूकता दर्शिता भवति । उक्तं सज्ञिद्वारम् , इदानीं साधर्मिकद्वारप्रतिपादनायाहदिट्ठमदिहा दुविहा नायगुणा चेव हुंति अन्नाया। अहिट्ठावि अदुविहा सुअमसुअ पसत्थमपसस्था ॥ ९५॥3
KASAIRSAGAR
Jain Education
a
l
For Personal & Private Use Only
Alanelibrary.org