________________
तत उपर्युपरि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्टावष्टमानि, ततोऽष्टमं षष्ठं चतुर्थ चेति । चतुर्थादीनि |च क्रमेणैकोपवासादिरूपाणीति । अत्र चैकस्यां परिपाट्यां विकृतिभिः पारणकं, द्वितीयस्यां निर्विकृतिकेन, तृतीयायामलेपकृता, चतुर्थ्यां चाचाम्लेनेति । अत्र चैकैकस्यां परिपाट्यामेकः संवत्सरो मासाः पञ्च दिनानि च द्वादश, परिपाटीचतुष्टये तु संवत्सराः पञ्च मासा नव दिनानि चाष्टादशेति । 'एवमेकावली' कनकावल्यभिलापेनेत्यर्थः, एकावली च नान्यत्रोपलब्धेति न लिखिता। 'खुड्डागसीहनिक्कीलिय'ति वक्ष्यमाणमहासिंहनिक्रीडितापेक्षया क्षुल्लक सिंहनिक्रीडितंसिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रीडितमित्युच्यते, तद्गमनं चातिक्रान्तदेशावलोकनतः, एवमतिक्रान्ततपासमासे| वनेनापूर्वतपसोऽनुष्ठानं यत्र तत्सिंहनिक्रीडितमिति, तच्चैवम्-चतुर्थं ततः षष्ठचतुर्थेऽष्टमषष्ठे दशमाष्टमे द्वादशदशमे
चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः षोडशाष्टादशे चतुर्दशपोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति, स्थापना चैवम्|. २३४५६७८९.४५,७६५४३२१, अत्र च एकस्यां परिपाट्यां दिनमानम् नवकसङ्कलने द्वे ४५ । ४५ अष्ट।' १२३४५६७८ ४५ ' ८७६५४३२ । कसङ्कलना चैका ३६ सप्तकसङ्कलनाऽप्येकैव २८ पारणकदिनानि ३३ सर्वाग्रम् १८७, एवं च मासाः ६ दिनानि च ७, चतसृषु परिपाटीष्वेतदेव चतुर्गुणं स्यात् , तत्र वर्षे २ दिनानि २८, तत्र प्रथमपरिपाट्यां पारणकं सर्वकामगुणितं, द्वितीयस्यां निर्विकृतिक, तृतीयायामलेपकारि, चतुर्थ्यामाचामाम्लमिति । एवं महासिंहनिक्रीडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र व्यादीनां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org