SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चारणाः, ते च द्विधा-जवाचारणा विद्याचारणाश्च, तत्राष्टमाष्टमेन क्षपतो यर्या लब्धिरुत्पद्यते यया च कञ्चिजवाव्यापारमाश्रित्यकेनैवोपपातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तया युक्ता आद्याः, या पुनः षष्ठं षष्ठेन क्षपत उत्पद्यत, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीप मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चेकेनैवोत्पातेनेहागन्तुं समर्थों भवति तया युक्ता द्वितीया | इति । 'विजाहर'त्ति प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः। आगासातिवाइणो'त्ति आकाशं-व्योमातिपतन्ति-अतिक्रामन्ति | आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधन (ने) समर्थवादिन इति भावः। | अप्पेगइआ कणगावलिं तवोकम्म पडिवण्णा एवं एकावलिं खुड्डागसीहनिक्कीलियं तवोकम्म पडिवण्णा अप्पगइयामहालयं सीहनिक्कीलियं तवोकम्म पडिण्णा भद्दपडिमं महाभद्दपडिमं सव्वतोभद्दपडिम आयंबिलवद्धमाणं तवोकम्म पडिवण्णा ___ 'कणगावलि तवोकम्म पडिवण्णग'त्ति कनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, तत्स्थापना चैवम्-चतुर्थ षष्ठमष्टमं चोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारि चत्वारि पतिद्वयेनावस्थापनीयानि, उभयतो वा रेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्त. स्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि, ततः कनकावलिमध्यभागकल्पनया चतुस्त्रिंशदष्टमानि, तानि चोत्तराधर्येण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy