SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सू०१२ औपपा- ४ 'सोच्चा णिसम्म'त्ति श्रुत्वा-श्रोत्रेणाकर्ण्य निशम्य-हृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरोतिकम् मकूवे' धाराभिः-जलधरवारिधाराभिर्हतं यन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालइयत्ति-पुलकितोऽत | ॥२४॥ पर उच्छूितरोमकूपश्च यः स तथा, इदं च विशेषणं क्वचिदेव दृश्यते । 'विअसियवरकमलणयणवयणे' विकसितानि४ भगवदागमनवार्ताश्रवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवन्नयनवदनानि यस्य स तथा । 'पचलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइयवच्छे प्रचलितानि-भगवदागमनश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधा-18 नानि कटकानि च कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटं च-किरीटं कुण्डले च-कर्णाभरणे |यस्य स तथा, हारो-मुक्ताकलापो विराजन्-शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः । | 'पालंबपलंबमाणघोलंतभूसणधरे' प्रालम्बो-झुम्बनकं प्रलम्बमानं-लम्बमानं घोलं च-दोलायमानं यद्भुषणम्-आभरणं तद्धारयति यः स तथा । 'ससंभम ति सादरं 'तुरियं' ( त्वरितं ) चवलंति-अतित्वरितं, क्रियाविशेषणे चैते । 'पच्चोरुहई' त्ति प्रत्यवरोहति-अवतरतीत्यर्थः, क्वचिदिदं पादुकाविशेषणं दृश्यते-वेरुलियवरिरिहअंजणनिउणोवियमिसिमिसिंतम|णिरयणमंडियाओ'त्ति एवं चात्राक्षरघटना-वरिष्ठानि-प्रधानानि वैडूर्यरिष्ठाञ्जनानि-रत्नविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्ति-परिकर्मिते ये ते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः- ४चन्द्रकान्तादिकर्केतनादिभिर्मण्डिते-भूषिते ये तथा, ततः पदचतुष्टयस्य कर्मधारयः। तथेदमपि 'अवहट्ट पंच रायककु हाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं'ति तत्रावहहु-अपहृत्य-परिहत्य राजककुदानि-राजचिह्नानि ॥२४॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy