SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ औपपा. तिकम् १२३॥ यथा भवति, एवमानन्दित-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'णदिए'त्ति नन्दितः-समृद्धितरतामुपगतः।। | 'पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिएं' परमं सौमनस्यं-सुमनस्कता सञ्जातं यस्य स परमसौमनस्यिकः तद्वाऽस्यास्तीति परमसौमनस्यिकः, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्-विस्तारं व्रजद्धदयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह-“वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवँस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय || 'हाएत्ति' व्यक्तं, 'कयबलिकम्मे त्ति स्नानानन्तरं कृतं बलिकर्म स्वगृहदेवतानां येन स तथा । 'कयकोउअमंगलपायच्छित्ते' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतदूर्वाङ्करादीनि 'सुद्धप्पवेसाई मंगल्लाई वत्थाई पवरपरिहिए' शुद्धात्मा-नानेन | शुचिकृतदेहः वेश्यानि-वेशे साधूनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः, मङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि व्यक्तं, पवरत्ति-द्वितीयाबहुवचनलोपात् प्रवराणि-प्रधानानि परिहितो-निव४ सितः अथवा प्रवरश्चासौ परिहितश्चेति समासः । 'अप्पमहग्घाभरणालंकियसरीरे'त्ति व्यक्तं, नवरं अल्पानि-स्तोकानि & महार्याणि-बहुमूल्यानि । 'सआओ'त्ति स्वकात्-स्वकीयात् । 'जेणेव'त्ति यस्मिन्नेव देशे इत्यर्थः । 'बाहिरिय'त्ति अभ्य- ॥ २३ ॥ न्तरिकापेक्षया बाह्या । 'उवट्ठाणसाल'त्ति आस्थानसभेति । तेणेव'त्ति तस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तति शिरसाशमस्तकेनाप्राप्तम्-अस्पृष्टं शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएणं विजएणं वद्धावेति'त्ति जयः-सामान्यो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy